पृष्ठम्:काव्यसंग्रहः.pdf/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३४ चौरपच्चाशिका | दृष्टं तया तु सदृशं खलु तेन रुपं शक्तो भवेदपि सराव परी नचान्यः ॥ ३८ ॥ अद्यापि निर्मलशरछशिगौरकान्तिं घेतो मुनेपरि हरेत् किमुतास्मदीयं । वज्रं सुधामयमहं यदि तत् प्रपद्ये चुम्बामि चाप्यविरतं व्यथते न चेतः ॥ ३८ ॥ अद्यापि ते प्रतिमुहुः प्रतिभाव्यमाना चेतो हरन्ति हरिणीशिशुलोचनायाः । अन्तर्निमग्नमधुपाकुलकुन्दवृन्द सन्दर्भसुन्दररुचो नयनाईपाताः ॥ ४० ॥ अद्यापि सत्कमलरेणुसुगन्धिगन्धं तत्प्रेमवारिमकरध्वजतापहारि । प्राप्नोम्यहं यदि पुनः सुरतैकतीर्थं प्राणांत्यजामि नियतं पुनराप्तिहेतोः ॥ ४१ । अद्यापि सा यदि पुनर्नलिनीवनान्ते रोमाष्चवीचिविलसञ्चपलाङ्ग्यष्ठिः । कादम्बकेशररुचः कणमाचसङ्घात् किश्चित्लमं लथयति प्रियराजहंसी ॥ ४२ ॥ अद्यापि तां नृपतिसेखरराजकन्यां सम्पूर्ण यौवनमदालसभङ्गगाचीं । गन्धर्वयक्ष सुरकिक्षरराजकन्यां स्वर्गादिमां निपतितामिव चिन्तयामि ॥४३॥ night red by Google