पृष्ठम्:काव्यसंग्रहः.pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चौरपञ्चाशिका । अद्यापि तां मलयपङ्कजगन्धलुब्ध भ्राम्यद्दिरेफचयचुम्बितगण्डदेशां । केशावधूतकरपलवकड़नानां त्वां नो दुनोति नियतं सुरतं मदीयं ॥३३॥ अद्यापि सा नखपदं स्तनमण्डलेषु दत्तं मयैव मधुपानविमोहितेन । उद्भिन्नरोमपुलकै हुभिः समन्तात् जागर्ति रक्षति विलोकयति प्रयत्नात् ॥ ३४॥ अद्यापि या शशिमुखी न कृतागसं मां सोचै वचः प्रति ददाति यदैव नक्तं । चुम्बामि रोदिमि भृशं पतितोमि पादे दासस्तव प्रियतमे भज मां स्मरामि ॥ ३५ ॥ अद्यापि धावति मनः किमहङ्गरोमि साचें सखीभिरभिवासहेषु कान्ते । कान्तासुगीतपरिहासविचिषवाद्यैः क्रीडासुखैरिह तु यातु मदीयकालः ॥ ३६॥ अद्यापि तां न खलु वेद्मि किमीशपत्नी सा वा शची सुरपतेरथ कृष्णलक्षीः । धाचैव किं चिजगतां परिमोहनाय सृष्टा कुले युवतिराजिदिक्षयेव ॥ ३७॥ अद्यापि तां जगति वर्णयितुं न कोपि शक्रोत्यदृष्टसदृशप्रतिरूपलक्ष्मीं । श 37 Digi: zed by

Google २३३