पृष्ठम्:काव्यसंग्रहः.pdf/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३२ चौरपब्वाशिका | वाचस्खलगिलकणाकुलाक्षीं सञ्चिन्तयामि गुरुशोकविनम्रवक्तां ॥ २७ ॥ अद्यापि वासगृहतो मयि नीयमाने. दुरभीषणवरैर्यमदूतकल्यैः । किं किं तया बहुविधं न कृतं मदर्थे कर्तुं न पार्यत इति व्यथते मनो मे ॥ २८ ॥ अद्यापि तां क्षणवियोगवियोगमनां शंके पुनर्वहुतया मृतशोकधारां । मज्जीवधारणकरी मदनालसाङ्गीं किं ब्रह्मकेशवहरैः सुदतीं स्मरामि ॥ २८ ॥ अद्यापि तां चलचकोरविलोलनेत्रां शीतांशुमण्डलमुख कुटिलाग्रकेशां । मत्तेभकुम्भस दृशस्तनभारनवां वन्धूकपुष्प सहशौष्ठपुटां स्मरामि ॥ ३० ॥ अद्यापि मे निशि दिवा हृदयं दुनोति पूर्णेन्दुसुन्दरमुखं मम वल्लभायाः । लावन्यनिर्जितमनोहरकामदपें भूयः पुनः प्रतिमुहुर्न विलोक्यते यत् ॥ ३१ ॥ अद्यापि तामरहितां मनसापि नित्यं सञ्चिन्तयामि सततं मम जीवितेशां !. लावन्यभोगनवयौवनभारसारां जन्मान्तरेपि मम सैव गतिर्यथा स्यात् ॥ ३२ ॥ nigi.red by Google 1