सामग्री पर जाएँ

पृष्ठम्:काव्यसंग्रहः.pdf/२४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३१
चौरपञ्चाशिका

अद्यापि तां प्रणयिनीं मृगशावकाक्षी
पोयूषपूर्ण कुचकुम्भयुगं वहन्तीं ।
पश्याम्यहं यदि पुनर्दिवसावसाने
स्वर्गापवर्गनरराज्यसुखं त्यजामि ॥ २२ ॥
श्रद्यापि तां स्तिमितवस्त्रमिवायलमां
प्रौढप्रतापमदनानलतप्तदेहां ।
वालां मदेकशरणामनुकम्पनीयां
प्राणाधिकां क्षणमहं नहि विस्मरामि ॥ २३ ॥
अद्यापि तां क्षितितले वरकामिनीनां
सर्वाङ्गसुन्दरतया प्रथमैकरेखां ।
संसारनाटकरसोत्तमरत्नपार्थी
कान्तां स्मरामि कुसुमायुधवाणखिन्नां ॥ २४॥
अद्यापि तां प्रथमतो वरसुन्दरीं मे
सेकपाचघटितावनिनाथपुत्रीं ।
हे हे जना मम वियोग हुताशतापं
सोढुं न शक्यत इति प्रतिचिन्तयामि ॥ २५ ॥
अद्यापि विस्मयकरी चिदशान् विहाय
वुद्ध लाञ्चलति तत् किमहङ्करोमि ।
जानवपि प्रतिमुहूर्तमिवान्तकाले
रुष्टा तु वल्लभतरेति ममातिधीराः ॥ २६ ॥
अद्यापि तां गमनमित्युदितं मदीयं
श्रुत्वैव भीतहरिणी शिशुचश्वलाक्षीं ।