पृष्ठम्:काव्यसंग्रहः.pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३० चौरपञ्चाशिका | सुप्ताव मे रहसि हास्यमुख प्रसन्न लज्जाभरार्द्रनयनां परिचिन्तयामि ॥ १६ ॥ अद्यापि तां गलितवन्धनकेशपाशां सस्तमजं स्मितसुधामधुराधरौष्ठीं पीनोन्नतस्तनयुगोपरिचारुचुम्बन् मुक्तावलिं रहसि लोलदृशं स्मरामि ॥ १७ ॥ अद्याप्यहं विरहवह्विनिपीडिताङ्ग तन्वीं कुरङ्गनयनां सुरतैकपात्रीं । नाना विचित्रकृतमण्डनमावहन्तीं तां राजहंसगमनां सुदतीं स्मरामि ॥१८॥ अद्यापि तां विरहितां कुचभारनवां मुक्ताकलापविमलीकृतकण्ठदेशां । ताङ्केलिमन्दिरगतां कुसुमायुधस्य कान्तां स्मरामि रुचिरोज्ज्वलधूमकेतुं ॥ १९ ॥ अद्यापि चाटुशतप्रोल्लसितस्मितन्तु तस्याः स्मरामि सुरतत्वमविलायाः । अव्याज निस्तनितकातर काकु कण्ठ सङ्कीर्णवर्णरुचिरं वदनं प्रियायाः ॥ २० ॥ अद्यापि तां सुरतघूर्णनिमीलिताक्षीं खस्ताङ्गयष्टिगलितांशुककेशनभ्रां । शृङ्गारवारिकमलाम्बुजराजहंसी जन्मान्तरे निधुवनेष्यनुचिन्तयामि ॥ २१ ॥ migl: red by Google !