एतत् पृष्ठम् परिष्कृतम् अस्ति
२२९
चौरपञ्चाशिका
अद्यापि तत्प्रणयभङ्गुरदृष्टिपातं
तस्याः स्मरामि रतिविभ्रमगाचभङ्गं
वस्वान्चलेनपरिधर्षिपयोधरान्तं
दन्तच्छदं दशनखण्डनमण्डलञ्च ॥ १२ ॥
अद्याप्यशोकनवपल्लवरक्तन्स्ताम्
मुक्ताफलप्रचयचुम्बितचूचुकामां
स्मितोइसितपाण्डुरगण्डदेशां
तां वल्लभां रहसि सम्बलितां स्मरामि ॥ १३ ॥
अद्यापि तत् कुसुमरेणुसुगन्धिमिश्रं
न्यस्तं स्मरामि नखरक्षतलक्ष्म तस्याः ।
आकृष्टहेमरुचिराम्बरमुत्थिताया
लज्जावशात् करभृतं नकुतोब्रजन्त्याः ॥ १४ ॥
अद्यापि तो विष्टतकज्जललोलनेचां
पृथ्वीप्रभिन्नकुसुमाकुलकेशपाशां ।
सिन्दूरसम्बलित मौक्तिकहारभारां
आवडहेमकटिकां रहसि स्मरामि ३१५ ॥
अद्यापि तां धवलवेश्मनि रत्नदीप
मालामयूखपटलैर्गलितान्धकारैः ।