पृष्ठम्:काव्यसंग्रहः.pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चौरपञ्चाशिका | अद्यापि तत्प्रणयभङ्गुरदृष्टिपातं तस्याः स्मरामि रतिविभ्रमगाचभङ्गं । वस्वान्चलेन परिधर्षि पयोधरान्तं दन्तच्छदं दशनखण्डनमण्डलञ्च ॥ १२ ॥ अद्याप्यशोकनवपल्लव रक्तस्तां अन्तः मुक्ताफलप्रचयचुम्बितचूचुकामां स्मितोइसितपाण्डुरगण्डदेशां तां वल्लभां रहसि सम्बलितां स्मरामि ॥ १३ ॥ अद्यापि तत् कुसुमरेणुसुगन्धिमिश्रं न्यस्तं स्मरामि नखरक्षतलक्ष्म तस्याः । आकृष्टहेमरुचिराम्बरमुत्थिताया लज्जावशात् करभृतं नकुतोब्रजन्त्याः ॥ १४ ॥ अद्यापि तो विष्टतकज्जललोलनेचां पृथ्वीप्रभिन्नकुसुमाकुलकेशपाशां । सिन्दूरसम्बलित मौक्तिकहारभारां आवडहेमकटिकां रहसि स्मरामि ३१५ ॥ अद्यापि तां धवलवेश्मनि रत्नदीप मालामयूखपटलैर्गलितान्धकारैः । Digi: zed by Google २२६