पृष्ठम्:काव्यसंग्रहः.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रुतबोधः । यत्र इयोरप्यनयोस्तु पादा भवन्ति सीमन्तिनि चन्द्रकान्ते । विदद्विराद्यैः परिकीर्तिता सा प्रयुज्यता मित्युपजा तिरेषा ॥ २१ ॥ आख्यानकी सा प्रकटीकृतार्थे यदीन्द्रवत्रा चरणःपुरस्तात्। उपेन्द्रवजाचरणा स्त्रयोऽन्ये मनीषिणोक्ता विपरीत पूर्वा ॥ २२ ॥ आद्यमक्षरमतस्तृतीय सप्तमं च नवमं तथान्तिमं । दीर्घमिंदुमुखि यत्र जयते तां वदन्ति कषयो रथोडतां ॥ २३ ॥ अक्षरं च नवमं दशमं च व्यत्ययाद्भवति यत्र विनीते । प्राक्तनैः सुनयने यदि सैव स्वागतेति कविभिः कथिता सा ॥ २४ ॥ सतृतीयकषष्ठमनङ्गरते नवमं विरतिप्रभवं गुरु चेत् । घनपीनपयोधरभारनते ननु तोटकहरूमिदं कथितं ॥ २५. यदि तोटकस्य गुरु पंचमकं विधितं विलासिनि तदक्षरकं । रससंख्याकं गुरु न चेदबले प्रमिताक्षरेति कविभिः कथिता ॥ २६ ॥ यदाचं चतुर्थं तथा सप्तमं स्यात्तथैवाक्षरं इस्वमेकाश यं शरच्चन्द्रविद्वेषिवकारविन्दे तदुक्त कविन्द्र भुज प्रयातं ॥ २७ ॥ अयि कृशोदर यष चतुर्थकं गुरु च सप्तमकं दशमं तथा । higt red by Google