पृष्ठम्:काव्यसंग्रहः.pdf/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२६ दृष्टान्तशतकं । नराः संस्कारा जगति किल केचित् सुकृतिनः समानायां जात्यामपि वयसि सत्यां परधियः । अयं दृष्टान्तो स्फुटकरणतोप्यभ्यसनतः शुकः श्लोकान् वक्तुं प्रभवति न काकः क्वचिदपि ॥१७॥ धनमपि परदत्तं दुःखमौचित्यभात्रां भवति हृदि तदेवानंदकारीतरेषां । मलयजरसविन्दुर्बंधते न प्रसन्नं नयति च रसवाहादेवमत्यन्तमत्र ॥८८ ॥ कालक्तमेण परिणामवशादनव्या भावा भवन्ति खलु पूर्वमतीवतुछाः । मुक्तामणिर्जलदतोयकणोप्यणियान् संपद्यते च चिरकीचकरंध्रमध्ये ॥ १८ ॥ इयं कुसुमदेवेन कविनैकेन निर्मिता । दृष्टान्तकलिका नाम जृम्भतां कविमानसे ॥१००। इति कुसुमदेवरचितं दृष्टान्तशतकं सम्पूर्ण ॥ Digit, ed by Google