पृष्ठम्:काव्यसंग्रहः.pdf/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२४ दृष्टान्तशतकं । निकटस्थ गरीयांसमपि लोको न मन्यते । पविचामपि यम्मर्त्या न नमस्यन्ति आइवीं ॥ ७५ ॥ स्वजनः स्वात्मवज्जंतुर्ज्ञायते गुणवान् परैः । गोपैर्गोपवदानायि हरिदेवैर्जगत्पतिः ॥ ७६ ॥ उत्तमस्तोषमायाति तदङ्गो पोष्यते यदि । वृक्षः प्रसीदति प्रायः पादाभ्यङ्गेन न स्वयं ॥ ७७ ॥ सर्वच गुणवानेव चकास्ति प्रथिते नरे । मणिर्मूर्ध्नि गले वाहौ पादपीठेपि शोभते ॥ ७८ ॥ उत्तमं सुचिरं नैव विपदोभिभयंत्यलं । राहुग्रसमसंभूतक्षणो विछाययेद्विधं ॥ ७८ ॥ प्रायः स्वभावं मुञ्चन्ति सन्तः संसर्गतोऽसतां । चण्डा चण्डातपात् पादा हिमांशोरम्मृतसृजः ॥ ८॥ तुल्यं परोपतापित्वं कुञ्चयोः साधुनीचयोः । न दाहे ज्वलतोर्भिनष्यन्दनेंन्धमयोः क्वचित् ॥ ८१ ॥ न भाति वांछा वैजात्ये न देवा भान्ति वादिनि । अञ्जनं दूषणं वक्त्रे भूषणं किल लोचने ॥ ८२ ॥ दुर्भगः स्यात्प्रया यो विभूत्यापि स तादृशः । गोमयं श्रीनिवासोस्ति न तथापि मनोहरं ॥ ८३ ॥ गुणानचन्ति जन्तूनां न जातिं केवलां कचित् । स्फाटिकं भाजनं भग्नं काकिन्यापि न गृह्यते ॥ ८४ ॥ आगछदुत्सवी भाति यथैव न तथा गतः । हिमांशोरुदयः सायं चकास्ति न तथोषसि ॥ ८५ ॥ Digit: red by Google.