सामग्री पर जाएँ

पृष्ठम्:काव्यसंग्रहः.pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२३
दृष्टान्तशतकं।


गुणवान् सुचिरस्थायी देवोपि नाभिजायते ।
तिष्टत्येकान्त्रिशाञ्चन्द्रः श्रीमान् संपूर्णमण्डलः ॥ ६५
यतण्वागतो दोषस्ततएव निवर्त्तते ।
अग्निदग्धस्य विस्फोटशन्तिः स्यादग्निना ध्रुवं ॥ ६६ ॥
स्वधियो निश्वयो नास्ति यस्य सभ्रमते स्वयं ।
प्रवातवालपचस्थः पटस्तन निदर्शनं ॥ ६७ ॥
कथाप्रवन्धे वन्ध्येपि कश्चिदेवासुरज्यते ।
प्रायश्वासादपत्यतः सश्वन्निसकेकसं ॥ ६८ ॥
वुद्धिमत्वाभिमानः को भवेत् प्रज्ञोपजीविनां ।
अन्य देयैरलंकारैर्नाहकारी विभूषणे ॥ ६८ ॥
उत्तमोष्यधमस्य स्याद्याञ्जानम्रकरः क्वचित् ।
कौस्तुभादीनि रत्नानि ययाचे हरिरंवुधिं ॥ ७० ॥
प्रयत्ने समके केचिदेव स्युः फलभागिनः ।
क्षीरोदमथनाहेवैरमृतं प्रापि नासुरैः ॥ ७० ॥
गुणैः पूजा भवेत् पुंसां नैकस्माज्जायते कुलात् ।
चूडारत्नं शशी शंभोः यानमुश्चैःश्रवा हरेः ॥ ७१ ॥
भोगः परोपतापेन पुंसां दुःखाय न स्थिरः ।
पानमप्यसृजः क्षिप्रं स्वपीडायै जलौकसां ॥ ७२
नोपभोगपरान् अर्थान् कोपि सञ्चिनुते चिरं ।
आखवः किमलङ्कारानात्मन्याहन्य कुर्वते ॥ ७३ ॥
विवर्णवचनैर्मन्युगूंढोप्यन्तः प्रकाशते ।
इन्धनान्तरसंस्थैश्च ज्वलत्यग्निः पयः कणैः ॥ ७४ ॥