मृदुभिर्वहुमिः शूरः पुम्भिरे को न वाध्यत ।
कपोतपोतकैरेकः श्येनो जातु न बाध्यते ॥ ५४॥
येनात्मा पण्यतां नीतः सरवान्विव्यते जनैः ।
हस्ती हेमसहस्रेण क्रीयते न मृगाधिपः ॥ ५५॥
गुणो गुणान्तरापेक्षी स्वरूपस्थातिहेतवे ।
स्वभाववाल्यं लावण्यं तारुण्ये न मनोहरं ॥ ५६।
सुलभं वस्तु सर्वस्य न यात्यादरणीयतां ।
स्वदारपरिहारेण परदारार्थिनी जनाः ॥ ५७ ॥
विक्रीतं निजमात्मानं वस्त्रैः संस्कुरुते जडः ।
परेभ्यः स्वशरीरस्य के वा भूषां वितन्वते ॥ ५८ ॥
क्षणक्षयिणि सापाये भोगे रज्यंति नोत्तमाः ।
सन्त्यज्यांभोजकञ्जल्कं न प्रार्थयति शैवलं ॥ ५८ ॥
असम्भवगुणस्तुत्या जायते स्वात्मनस्त्रपा ।
कर्णिकारं सुगन्धीति वदन् केनोपहास्यते ॥ ६० ॥
धनाशया खलीकारः कस्य नाम न जायते ।
द्रूरादामिषलोभेन वध्यते खे वरः खगः ॥ ६१ ॥
तटस्थैः ख्यापिताश्वेतो विशन्ति गुणिनाङ्गुणाः |
उत्कोचितानां पद्मानां गन्धोवायुभिराहृतः ॥ ६२ ॥
निजाशयवदाभाति पुंसां चित्ते पराशयः ।
प्रतिमामुखचन्द्राभे कृपाणे याति दीर्घतां ॥ ६३ ॥
अधमं बाधते भूयो दुःखवेगो न तूत्तमं ।
पादइयं ब्रजत्याशु शीतस्पर्शों न चक्षुषी ॥ ६४ ॥
पृष्ठम्:काव्यसंग्रहः.pdf/२३५
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२२
दृष्टान्तशतकं।