पृष्ठम्:काव्यसंग्रहः.pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२२ दृष्टान्त शतकं । मृदुभिर्वहुमिः शूरः पुम्भिरे को न वाध्यत । कपोतपोतकैरेकः श्येनो जातु न बाध्यते ॥ ५४॥ येनात्मा पण्यतां नीतः सरवान्विव्यते जनैः । हस्ती हेमसहस्रेण क्रीयते न म्हगाधिपः ॥ ५५॥ गुणो गुणान्तरापेक्षी स्वरूपस्थातिहेतवे । स्वभाववाल्यं लावण्यं तारुण्ये न मनोहरं ॥ ५६। सुलभं वस्तु सर्वस्य न यात्यादरणीयतां । स्वदारपरिहारेण परदारार्थिनी जनाः ॥ ५७ ॥ विक्रीतं निजमात्मानं वस्त्रैः संस्कुरुते जडः । परेभ्यः स्वशरीरस्य के वा भूषां वितन्वते ॥ ५८ ॥ क्षमक्षयिणि सापाये भोगे रज्यंति नोत्तमाः । सन्त्यज्यांभोजकञ्जकं न प्रार्थयति शैवलं ॥ ५८ ॥ असम्भवगुणस्तुत्या जायते स्वात्मनस्त्रपा । कर्णिकारं सुगन्धीति वदन् केनोपचास्यते ॥ ६० ॥ धनाशया खलीकारः कस्य नाम न जायते । दूरादामिषलोभेन बध्यते खे वरः खगः ॥ ६१ ॥ तटस्थैः ख्यापिताश्वेतो विशन्ति गुणिनाङ्गुणाः | उत्कोचितानां पद्मानां गन्धोवायुभिराहृतः ॥ ६२ ॥ निजाशयवदाभाति पुंसां चित्ते पराशयः । प्रतिमामुखचन्द्राभे कृपाणे याति दीर्घतां ॥ ६३ ॥ अधमं बाधते भूयो दुःखवेगो न तूत्तमं । पादइयं ब्रजत्याशु शीतस्पर्शो न चक्षुषी ॥ ६४ ॥ Google Digi: red by 1