पृष्ठम्:काव्यसंग्रहः.pdf/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दृष्टान्तशतकं । विना परीक्षां नो तत्त्वं प्रसिद्धं ज्ञायते सतः + स्ववर्मवन्धानी शुद्धिर्ज्ञायते कर्षणं विना ॥४३॥ प्राप्य वित्तं जडास्तू निर्वृत्तिं यान्ति नान्यथा । तोयमासाद्य गर्जन्ति न रिक्तास्तनयित्नवः ॥ ४४ ॥ कार्यापेक्षी अनः प्रायः प्रीतिमाविष्करोत्यलं । लोमार्थी सौण्डिकः शयेर्मेषं पुष्णाति पेशलैः ॥ ४५ ॥ दुर्जनो जीयते युक्त्या निग्रहेण न धीमता । निपात्यते महावृक्षस्तत्समीपक्षितिक्षयात् ॥ ४६ ॥ दुःखे समे स्यातां जन्तूतां क्लेशहेतुके । मूर्ध्नि स्थितानां केशानां भवेतां स्नेहछेदने ॥४७॥ दुष्टदुर्जनदौरात्म्यैः सज्जने रज्यते जनः । आरुह्य पर्वतं पान्थः सानौ निर्वृतिमेत्यां ॥४८॥ स्वभावसुन्दरं वस्तु न संस्कारमयेक्षते । मुक्तारत्नस्य शाणामघर्षणं नोपयुज्यते ॥४८ ॥ शोभते विदुषां मध्ये नैव निर्गुणमानसः । अन्तरे तमसान्दीपः शोभते नार्कतेजसां ॥ ५० ॥ युक्त्या परोक्षं बाधेत विपक्षक्षयणक्षमः । शोषयत्यचिरेणैव प्रान्तरस्थमलं पयः ॥ ५१ ॥ दुर्गदेशप्रविष्टोपि शूरोभ्येति पराभवं । गाढपकनिमग्नाङ्गो मातङ्गोप्यवसीदति ॥ ५२ ॥ नयेनाङ्कुरितं शौर्यं जयाय नतु केवलं । अन्ययुक्तं विषं भुक्तं पथ्यं स्यादन्यथा नृतिः ॥ ५३॥ Digi: zed by Google २२१