विना परीक्षां नो तत्त्वं प्रसिद्धं ज्ञायते सतः +
स्ववर्मवन्धान्नो शुद्धिर्ज्ञायते कर्षणं विना ॥४३॥
प्राप्य वित्तं जडास्तूनणे निर्वृत्तिं यान्ति नान्यथा ।
तोयमासाद्य गर्जन्ति न रिक्तास्तनयित्नवः ॥ ४४ ॥
कार्यापेक्षी अनः प्रायः प्रीतिमाविष्करोत्यलं ।
लोमार्थी सौण्डिकः शष्यर्मेषं पुष्णाति पेशलैः ॥ ४५ ॥
दुर्जनो जीयते युक्त्या निग्रहेण न धीमता ।
निपात्यते महावृक्षस्तत्समीपक्षितिक्षयात् ॥ ४६ ॥
सुखदुःखे समे स्यातां जन्तूतां क्लेशहेतुके ।
मूर्ध्नि स्थितानां केशानां भवेतां स्नेहछेदने ॥४७॥
दुष्टदुर्जनदौरात्म्यैः सज्जने रज्यते जनः ।
आरुह्य पर्वतं पान्थः सानौ निर्वृतिमेत्यलं ॥४८॥
स्वभावसुन्दरं वस्तु न संस्कारमयेक्षते ।
मुक्तारत्नस्य शाणाश्मघर्षणं नोपयुज्यते ॥४८ ॥
शोभते विदुषां मध्ये नैव निर्गुणमानसः ।
अन्तरे तमसान्दीपः शोभते नार्कतेजसां ॥ ५० ॥
युक्त्या परोक्षं बाधेत विपक्षक्षयणक्षमः ।
शोषयत्यचिरेणैव प्रान्तरस्थमलं पयः ॥ ५१ ॥
दुर्गदेशप्रविष्टोपि शूरोभ्येति पराभवं ।
गाढपकनिमग्नाङ्गो मातङ्गोप्यवसीदति ॥ ५२ ॥
नयेनाङ्कुरितं शौर्यं जयाय नतु केवलं ।
अन्ययुक्तं विषं भुक्तं पथ्यं स्यादन्यथा नृतिः ॥ ५३॥
पृष्ठम्:काव्यसंग्रहः.pdf/२३४
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२१
दृष्टान्तशतकं