पृष्ठम्:काव्यसंग्रहः.pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२० दृष्टान्तशतकं । भोगेछा नोपभोगेन भोगिनां जातु शाम्यति । लवणेनान्तरालेन तृष्णा प्रत्युत जायते ॥ ३२ ॥ दुर्लभोप्युत्तमः प्रायः स्वजातीयेम लभ्यते । कर्णकोटरगं वारि वारियैवावलष्यते ॥ ३३ ॥ जन्तोर्निरुपभोगस्य हृश्यते भुवि रूक्षता । वाताशिनो डिजितत्वं विहितं पश्य वेधसा ॥ ३४ ॥ उर्जितं सञ्जनं दृष्ट्वा द्वेष्टि नीचः पुनः पुनः । कवली कुरुते खस्यं विधुं दिवि विधुन्तुदः ॥ ३५ ॥ न लभन्ते विनोद्योगं जन्तवः सम्पदां पदं । सुराः क्षीरोदविक्षोभमनुभूयामृतं पपुः ॥ ३६॥ सम्पत्तौ कोमलं चित्तं साधोरापदि कर्कशं । सुकुमारं मधौ पचं तरोः स्यात्कठिनं शुचौ ॥ ३७॥ आकरः कारणं जन्तो दर्जिन्यस्य न जायते । कालकूटः सुधासिंधोः प्राणिनांः प्राणहारकः ॥ ३८॥ गुणदोषाववाप्येते पुसां संशीलनादुधैः । लेभे पीयूषगरले मंथनादंबुधेः सुरैः ॥ ३९ ॥ स्वभावं न जहात्येव साधुरापडतोपि सन् । कर्पूरः पावकस्पृष्टः सौरभं लभतेतरां ॥ ४० ॥ न व्याप्तिरेषा गुणिनो गुणवान् जायते ध्रुवं । चन्दनोऽनलसन्दग्धो न भस्म सुरभि क्वचित् ॥ ४१ ॥ प्यापसमयः साधोः प्रयाति वाघनीयतां । विधो विधुन्तुदास्कन्दविपत्कालोपि सुन्दरः ॥ ४२ ॥ Digt Zed by Google