।
भोगेछा नोपभोगेन भोगिनां जातु शाम्यति ।
लवणेनान्तरालेन तृष्णा प्रत्युत जायते ॥ ३२ ॥
दुर्लभोप्युत्तमः प्रायः स्वजातीयेम लभ्यते ।
कर्णकोटरगं वारि वारिणैवह्वष्यते ॥ ३३ ॥
जन्तोर्निरुपभोगस्य हृश्यते भुवि रूक्षता ।
वाताशिनो डिजितत्वं विहितं पश्य वेधसा ॥ ३४ ॥
उर्जितं सञ्जनं दृष्ट्वा द्वेष्टि नीचः पुनः पुनः ।
कवलीकुरुते खस्थं विधुं दिवि विधुन्तुदः ॥ ३५ ॥
न लभन्ते विनोद्योगं जन्तवः सम्पदां पदं ।
सुराः क्षीरोदविक्षोभमनुभूयामृतं पपुः ॥ ३६॥
सम्पत्तौ कोमलं चित्तं साधोरापदि कर्कशं ।
सुकुमारं मधौ पचं तरोः स्यात्कठिनं शुचौ ॥ ३७॥
आकरः कारणं जन्तो दैर्जिन्यस्य न जायते ।
कालकूटः सुधासिंधोः प्राणिनांः प्राणहारकः ॥ ३८॥
गुणदोषाववाप्येते पुसां संशीलनादुधैः ।
लेभे पीयूषगरले मंथनादंबुधेः सुरैः ॥ ३९ ॥h9
स्वभावं न जहात्येव साधुरापङ्गतोपि सन् ।
कर्पूरः पावकस्पृष्टः सौरभं लभतेतरां ॥ ४० ॥
न व्याप्तिरेषा गुणिनो गुणवान् जायते ध्रुवं ।
चन्दनोऽनलसन्दग्धो न भस्म सुरभि क्वचित् ॥ ४१ ॥
अप्यापसमयः साधोः प्रयाति श्लाघनीयतां ।
विधो विधुन्तुदास्कन्दविपत्कालोपि सुन्दरः ॥ ४२
पृष्ठम्:काव्यसंग्रहः.pdf/२३३
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२०
दृष्टान्तशतकं।