पृष्ठम्:काव्यसंग्रहः.pdf/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हृष्टान्तशतकं । व्यसनानन्तरं सौख्यं स्वल्यमप्यधिकं भवेत् । काषायरसमास्वाद्य स्वाइतीवाम्बु विन्दते ॥ २१ ॥ गुणानामन्तरं प्रायस्तो जानाति नेतरः । मालती मल्लिकामोद घ्राणं वेत्ति न लोचनं ॥ २२ ॥ प्रभूतवयसः पुंसी धियः पाकः प्रवर्त्तते । जीर्णस्य चन्दनतरोरामोद उपजायते ॥ २३ ॥ कामाय स्पृहयत्यात्मा संयतोपि मनीषिणः । वीथोनियमितोप्युक्षा शष्यमासाद्य भावति ॥ २४ ॥ धनागमेघिकं पुंसां लोभमभ्येति मानसं । निदाघकाले प्रालेयः प्रायः शैत्यं वहत्यलं ॥ २५ ॥ सहजोपि गुणः पुंसां साधुवादेन वर्धते । कामं सुरसलेपैन कान्तिं वहति काञ्चनं ॥ २६ ॥ निन्दां यः कुरुते साधोस्तथा स्वं दूषयत्यसौ । खे भूतिं यत्य जेदु चैर्मूर्ध्नि तस्यैव सा पतेत् ॥ २७ ॥ स्वभावं नैव मुञ्चन्ति सन्तः संसर्गतोऽसतां । न त्यजन्ति रुतं मञ्जु काकसंपर्कतः पिकाः ॥२८॥ संपत्तौ कर्कशं चित्तं खलस्यापदि कोमलं | शीतलं कठिनं प्रायस्तप्तं मृदु भवत्ययः ॥ २१ ॥ प्रायः प्रकुष्यतितरां प्रीत्यैव प्रखलो जनः । नयनं लेहसंपर्कात्कालुष्यं समुपेत्यलं ॥ ३० ॥ शुभं वाप्यशुभं कर्म फल कालमपेक्षते । शरद्येव फलत्याशु शालिर्न सुरभी क्वचित् ॥ ३१ ॥ Digitized by by Google