पृष्ठम्:काव्यसंग्रहः.pdf/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१८ दृष्टान्तशतकं । उत्तमः केशविक्षोभं क्षमः सोढुं नहीतरः । मणिरेव महाशाणघर्षणं नतु मृत्कणः ॥ १० ॥ स्वजातीयं विना वैरी नं जय्यः स्यात्कदाचन । विना वज्ञमणि मुक्तामणिर्भेद्यः कथं भवेत् ॥ ११ ॥ सजनाएव साधूनां प्रथयन्ति गुणोत्करं । पुष्पाणां सौरभं प्रायस्तनुते दिक्षु मारुतः ॥ १२ ॥ उपकर्तुं यथा स्वल्पः समर्थो न तथा महान् । प्रायः कूपस्तृषां हन्ति सततं नतु वारिधिः ॥ १३ ॥ सति शीले गुणा भान्ति पुंसां शौर्यादयो यथा । यौवने सदलङ्काराः शोभाम्बिभ्रति सुभुवः ॥ १४ ॥ जडः प्रभवति प्रायो दुःखं विभ्रति साधवः । शीतांशावुदिते पद्माः सङ्कोचं यान्ति वारिणि ॥ १५ ॥ गुणेन स्पृहणीयः स्यान्न रूपेण युतो नरः । सौगन्ध्यहोनं नादेयं पुष्यं कान्तमपि क्वचित् ॥१६ कञ्चिः कस्यचिदेव स्याम् सुहृदिसम्भभाजनं । पद्मं विकासयत्यर्कः सङ्कोचयति कैरवं ॥ १७ ॥ ईश्वराः पिशुनान् शश्वदिषन्तीति किमद्भुतं । प्रायो निधय एवाहीन्दिज़िन्दधतेतरां ॥१८॥ संपद्यास्ते परैः सस्कं विपदि स्वजनैर्जडः । जृम्भत्यम्भोरुहं सृङ्गः शुष्यत्युदकशैवतैः ॥ १८ ॥ नीचावमानमलिनां प्रभुक्त सम्पदं पुमान् । लशनाक्तां सकर्पूरचर्चा वितनुते तनौ ॥ २० ॥ by Google Digi: zed by