पृष्ठम्:काव्यसंग्रहः.pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दृष्टान्तशतकं । शिवस्मरणमेवेकं संसारान्तकनाशनं । घनौघो घोरदावाग्निनिर्वापणपटुर्भवेत् ॥ १ ॥ साधुरेव प्रवीणः स्यात्सगुणामृतवर्णने । नवचूताङ्कुरास्वादकुशलः कोकिलः किल ॥ २ ॥ दर्जनो दूषयत्येव सतां गुणगणं क्षणात् । मलिनी कुरुते धूमः सर्वथा विमलाम्बरं ॥ ३ ॥ यथा दोषो विभात्यस्य जनस्य न तथा गुणः । प्रायः कलङ्कएवेन्दोः प्रस्फुठो न प्रसन्नता ॥ ४ ॥ विवेकए॒व व्यसनं पुंसां क्षययितुं क्षमः अपहर्तुं समर्थोसौ रविरेव निशातमः ॥ ५ ॥ प्रायः सन्त्युपदेशा धीमन्तो न जडाशयाः । तिलाः कुसुमसौगन्ध्यवाहिनो न यवाः क्वचित् ॥ ६॥ चिंत्यते नयस्वादावमन्दं समुपेप्सुभिः । विनम्य पूर्वं सिंडोपि इन्ति हस्तिनमोजसा ॥ ७ ॥ संस्थितस्य गुणोत्कर्षः प्रायः प्रस्फुरतिस्फुटं । दग्ध स्यागु रुख ण्डस्य स्फारी भवति सोरभं ॥८॥ मनस्विहृदयं धत्ते रोषेणैव प्रसन्ततां । भजा ज्वलद्गारः प्रसादं लभतेतरां ॥ ९ ॥ Digitzed by Google