पृष्ठम्:काव्यसंग्रहः.pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूर्यशतकं । सामेकोऽभिधेयस्तदनुगुणगणो यः स सूर्योवतादः ॥१८॥ देवः किं बान्धवः स्यात्प्रियसुहृदयवाचार्य आहोस्खिदार्यो रक्षा चक्षुर्न दीपो गुरुरुत जनको जीवितं बीजमोकः । एवं निर्णयते यःकद्रव न जगतां सर्वदा सर्वदोसौ सर्वाकारोपकारी दिशतु दशशताभीषुरभ्यर्थितं वः ॥१००॥ श्लोका लोकस्य भूत्यै शतमिति रचिताः श्रीमयूरेण भक्त्या युक्तश्चैतान् पठेद्यः सतदपि पुरुषः सर्वपापैर्विमुक्तः । आरोग्यं सत्कवित्वं मतिमतुलवलं कान्तिमायुः प्रकर्षं विद्या मैश्वर्य्यमर्थं सुखमपि लभते सोऽजसूर्य्यप्रसादात् १०१ ॥ इति महाकविश्रीमयूरभट्टकृतं सूर्यशतकं समाप्तं ॥ २१६ Digized by Google