सामग्री पर जाएँ

पृष्ठम्:काव्यसंग्रहः.pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
centerसूर्यशतकं
२०५
 

तेजोरूपा परैव त्रिषु भुवनतटेवादधाना व्यवस्थां
साश्रीश्रेयांसिदिश्यादशिशिरमहसो भण्डलाम्रोहतावः ४६॥

        अश्ववर्णना ।
रक्षन्त्रक्षुखडेमोपलपटलमलं लाघवादुत्पतन्तः
पातायवाणितपवनजवा वाजिनस्ते जगंति ।
येषां वीतान्यचिह्नोग्वयमपि वहतां मार्गमाख्याति मेरा
बुद्यनुद्दाम दीप्तिधुमणिमखिशिलावेदिकाजातवेदाः ॥४४॥
सुष्टा पुष्टेशुपातै रतिनिकटतया दत्तदा हातिरेकैर्
एकाहाकांतकृत्स भिदिवपथपृथश्वासशोषाः श्रमेण ।
तीव्रोदन्याख्वरंतामहितविहतये सप्तयः सप्तसप्ते
रम्यासाकाशगङ्गाजलशरलगलावर्जिताग्रानना
मत्वाऽन्यान् पार्श्वतोऽश्वान् स्फटिकतटहशद्दष्टदे हा द्रवन्ती
व्यस्तेऽहन्धस्तसम्ध्येयमिति मृदुपदा पद्मरागोपलेषु ।
सादृश्यादृश्यमूर्तिर्मरकतकटके लिष्टसूता सुमेरोर्
मूर्धन्यावृत्तिलध्वध्रुवगतिरवतु ब्रह्मवाहावली वः ॥ ४६॥
हेलालोलं वहन्ती विषधरदमनस्याग्रजेनावकृष्टां
स्वर्वाहिण्याः सुदूरं अनितजवपयाः स्यन्दनस्य स्वदेन ।
निर्व्याजं तायमाने हरितिमणिनिजे स्फीतफेनाहितश्रीर्
अश्रेयांस्यश्वपङिक्तः समयतु यमुनेवापरा तापनी वः ४७॥
मार्गोपान्ते सुमेरोर्नुवतिकृतनतौ नाकधावां निकाये
वीय ब्रीडावतीनां प्रतिकुइरमुखं किन्नरीणां मुखानि ।