सामौ सा नौदयेमारुणितदलपुनर्यौवनानां बनानाम्
आलीमालीढपूर्वा परिहतकुहरोपान्तनिम्बातनिम्रा ।
भावोभावोपशांतिं दिशतु दिनपतेर्भासमाना समाना
राज़ी राजीवरेणोः समसमयमुदे तीव यस्या वयस्था ॥ ३८ ॥
उज्जृंभाम्भोरुहाणां प्रभवति पयसां या श्रिये नोष्णताये
पुष्णात्यालोकमाचं नतु दिशति दृशां दृश्यमामा विघातं ।
पूर्वाद्रेरेवपूर्वन्दिवमनु च पुनः पावनी दिङमुखानाम्
एनांस्येनीविभासौनुदतुनुतिपदेकास्यदंप्राक्तनीवः ॥३८॥
वाचां वाचस्पतेरप्यचलभिदुचिता चार्यकाणां प्रपंचैर्
वैरिंच्यानां तथोच्चारितरुचिरचा माननानां चतुएँ ।
उच्येतार्थासु वाच्यच्युतिशुचिचरितं यस्य नोचै विविच्य
प्राच्यं वर्चश्वकासञ्चिरमुपचिनुताप्तस्य चंडार्चिषो वः ॥४०॥
मूर्धातुरागस्तरुषु किशलयो विद्रुमौघः समुद्रे
दिङमातंगोत्तमाङ्गेवभिनवनिहितः सान्द्रसिन्दूररेणुः ।
सीमित व्योमश्व हेम्बः सुरशिखरिभुवो जायते यः प्रकाशः
शोणिम्माऽसौखरांशोरुषसि दिशतु वः शर्म शोभैकदेशः ॥४१॥
अस्ताद्रीशोत्तमांगे श्रितशशिनि तमः कालकूटे निपीते
याति व्यक्तिं पुरस्तादरुणकिशलये प्रत्युषः पारिजाते ।
उद्यत्यारक्तपीताम्बर
विशदतरो दीक्षिता तीक्ष्णमानोर्
लक्ष्मी लक्ष्मीरिवास्तु स्फुटकमलपुटायाश्रया श्रेयसे वः ॥४२॥
मोदन्यान् जन्मभूमिर्णतदुदरभुवो वान्धवाः कौस्तुभाया
यस्याः पाणौ न पद्मं नच नरकरिपूरस्थलीवासवेश्म |