क्ष्मां क्षेपीयः क्षपांभः शिशिरतरतलस्पर्शतर्षाहतेव
द्रागाभानेतुमाशादिरदकरसरः पुष्कराणीव बोधं ।
प्रातः प्रोसंध्य विष्णोः पदमपि घृणये वातिवेगाहवीय
स्युद्दामचोतमाना दहतु दिनपतेर्दुर्निमितं युतिः ॥२२॥
नोकल्यापायवायोरदयरयदलक्ष्माधरस्यापि गम्या
गाढोद्गीर्णोज्वलश्रीरहनि म रहिता नो तमः कज्जलेन ।
प्राप्तोत्पत्तिः पतङ्गान्त्र पुनरुपगता मोषमुष्यत्विषो यो
वर्तिः सैवान्यरूपा सुख्यतु निखिलद्दीपदीपस्य दीप्तिः
निःशेषाशावपूरप्रवणगुरुगुणञ्चाघनीय स्वरूपा [ ॥ २३॥
पर्याप्तं नोदयादौ दिनगमसमयोपशवेऽप्युनतेव ।
अत्यन्तं यानभिज्ञा क्षणमपि तमसा साकमेकष वस्तुं
अध्रस्येचा रुचिर्वो रुचिरिव रुचितस्याप्तये वस्तुनोऽस्तु ॥२४॥
विवाणः शक्तिमाशु प्रशमितवलबत्तारकौर्जित्यगुर्वी
कुर्वाणो लीलयाधः शिखिनमपि लसचन्द्रकान्तावभासं ।
श्रदध्यादन्धकारे रतिमतिशयिनीमावहन् वीक्षणानां
बालो लक्ष्मीमपारामपरइव गुद्दोऽहर्पतेरातपो वः ॥ २५ ॥
ज्योत्सांशात्सपाण्डुद्युतितिमिरमसीशेषकरूमाषमीषज्
जृम्भोद्भूतेन पिङ्गं सरसिजरजसा सन्ध्यया शोणशोचिः ।
प्रातः प्रारम्भकाले सकलमिव जगचित्रमुन्मीलयन्तो
कान्तिस्तीचत्विषोक्षांमुदमुपनयताचूलिकेषातलांवः २६॥
आयान्ती किं सुमेरोः सरणिररुणिता पद्मरागैःपरागैर्
होस्वित् स्वस्य माहारजनिविरचिता वैअञ्चन्ती रथस्य |
पृष्ठम्:काव्यसंग्रहः.pdf/२१४
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति