पृष्ठम्:काव्यसंग्रहः.pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैराग्यशतकं । १८६ न तर्कितगमागमानमु भवस्व भोगानिह ॥ ६१ ॥ एतस्मादिरमेन्द्रियार्थगहनादायासकादाश्रयात् श्रेयोमार्गमशेषदुःखशमनव्यापारदक्षं क्षणात् । मीभावमुपैसियज निजां कल्लोललोलां मतिं मा भूयो भज भनुराम्भवरतिं चेतः प्रसीदाधुना ॥ ६२ ॥ मोहं मार्जय तामुपाश्रय रतिं चन्द्राईचूडामणौ चेतः स्वर्गतरङ्गिणीतटभुवि व्यासक्रमङ्गी कुरु । कोवा बीचिषु बुद्दुदेषु च तडिल्लेखासु च श्रीषु च जालाग्रेषु च पन्नगेषु च सरिहर्गेषु च प्रत्ययः ॥ ६३ ॥ चेतश्चिन्तय मा रमां सवदिमामास्थायिनीमास्थया भूपालभुकुटीकुटीरविहरव्यापारपण्याङ्गनां । कन्याकबुकितः प्रविश्य भवनदारानि वाराणसी रथ्यापंक्तिषु पाणिपाचपतितां भिक्षामपेक्षामहे ॥ ६४ ॥ अग्रे गीतं सरसकबयः पार्श्वयो दर्दाक्षिणात्याः पश्चालीलावलथरणितं चामरग्राहिणीनां । यद्यस्त्येवं कुरु भवरसास्वादने लम्पटत्वं. नोचेञ्चेतः प्रविश सहसा निर्विकल्पे समाधौ ॥ ६५ ॥ प्राप्ताः श्रियः सकलकामदुधास्ततः किं न्यस्तं पदं शिरसि विद्दिषतां ततः किं । संपादिताः प्रणयिनोविभ वास्ततः किं कल्पस्थितास्तनुभृतस्तनवस्ततः किं ॥ ६६ | भक्तिर्भवे मरणजन्मभयं हृदिस्थं Tigit red by Google