पृष्ठम्:काव्यसंग्रहः.pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८८ वैराग्यशतकं । शयनमवनिष्पृष्ठे वाससी वस्कले च । धनलवमधुपानभ्रामिसर्वेन्द्रियाणाम् अविनयमनुमन्तुं नोत्सहे दुर्जमानां ॥ ५५॥ श्रश्रीमहि वयं भिक्षामाशावासो वसीमहि । शयीमहि महीपृष्ठे कुर्वीमहि किमीश्वरैः ॥ ५६॥ न नटा न विटा न गायका न च सभ्येतरवादिचन्चवः । न्दप संसदि तेत्र के वयं स्तनभारानमितान योषितः विपुलहृदयैरीशैः कैश्चिञ्जगज्जनितं पुरा विश्वममपरैर्दत्तं चान्यैर्विजित्य तृवं यथा । इह हि भुवनान्यन्ये धीराञ्चतुर्दश भुजते कतिपयपुरस्खाम्ये पुंसां करुष मदनज्वरः ॥ ५८ ॥ अभुक्तायां यस्यां क्षणमपि न यातं न्हपशतैर भुवस्तस्या लाभे कइइ बहुमानः क्षितिभृतां । तदंशस्याप्यंशे तदवयवलेशेपि पतयो [ ५७॥ विषादे कर्तव्ये विदधति जडाः प्रत्युत मुदं ॥ ५९॥ परेषां चेतांसि प्रतिदिवसमाराध्य बहुधा प्रसादं किन्नेतुं विशसि हृदयश विफलं । प्रसन्ने त्वय्यन्तः स्वयमुदितचिन्तामणिगुणे विविक्ते सङ्कल्पे किसभिलषितं पुष्यति न ते ॥ ६ ॥ परिभ्रमसि किं हवा क्व च न चित्त विश्रम्यतां स्वयम्भवति यद्यथा भवति नान्यथा तत्तथा । अतीतमपि न स्मरन्नपि च भाव्यंसङ्कल्पयन् • Tigic red by Google