सामग्री पर जाएँ

पृष्ठम्:काव्यसंग्रहः.pdf/२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
अष्टरत्नं

धनेन किं यो न ददाति याचके
बलेन किं यश्च रिपून्न वाधते ।
श्रुतेन किं यो नच धर्ममाचरेत्
किमात्मना यो न जितेन्द्रियो भवेत् ॥७॥
इति सप्तरत्नं समाप्तम् ॥

अष्टरत्नं।


अर्थो व्योम तथा नित्यं ब्रह्मा भोगे शशिन्यपि ।
शशी निःस्वञ्च विज्ञेयमष्टरत्नमिदं क्रमात् ।।
अर्थागमो नित्यमरोगिता च
प्रिया च भार्या प्रियवादिनी च ।
वश्यश्च पुत्रोऽर्थकरी च विद्या
षड्जीवलोकेषु सुखानि तात ॥१॥
व्योमैकान्तविहारिणोपि विहगाः संप्राप्नुवंत्यापदं
वध्यन्ते निपुनैरगाधसलिलात् मत्स्याः समुद्रादपि ।
दुर्नीते हि विधौ कुतः सुचरितं कः स्थानलाभे गुणः
कालो हि व्यसनप्रसारितकरो गृह्णाति दूरादपि ॥२॥
नित्यं छेदस्तृणानां क्षितिनखलिखनं पादयोरल्यपूजा
दन्तानामल्पशौचं वसनमलिनता रूक्षता मूर्खजानां ।
हे सन्ध्ये चापि निद्रा विवसनशयनं ग्रासहासातिऱैकः
स्वांगे पीठे च वाद्यं हरति धनपतेः केशवस्यापि लक्षीम् ॥३॥