सामग्री पर जाएँ

पृष्ठम्:काव्यसंग्रहः.pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

{{rh|left=|center=वैराग्यशतकं कालमहिमा: |right=१८५}



सा रम्या नगरी महान् स नृपतिः सामन्तचक्रब्द तत्
पार्श्वे तस्य च सा
विदग्धपरिषत्ताञ्चन्द्रविम्बामनाः ।
१८५
उन्मत्तः स च राजपुत्रनिवहस्ते वन्दिनस्ताः कथाः
सर्वं यस्य वशादगात् स्मृतिपथं कालाय तस्मैः नमः ॥ ३८ ॥
यत्रानेकः क्वचिदपि च गृहे तच तिष्ठत्यथैको
यत्राप्ये कस्तदनु वहवस्तच नैकोपि चान्ते ।
इत्यश्वेमौ रजनिदिवसौ दोलयन् दाविवक्षी
कालः काल्या भुवनफलके क्रीडति प्राणिसारैः ॥ ३८ ॥
आदित्यस्य गतागतैरहरहः संक्षीयते जीवनं
व्यापारैर्बहुनार्यभारगुरुभिः
कालो न विज्ञायते ।
दृष्ट्वा जन्मजराविपत्तिमरणं चासञ्च नोत्पद्यते
बीत्वा मोहमयीं प्रमादमदिरामुमत्तभूतं जगत् ॥ ४० ॥
राचिः सैव पुनः सण्व दिवसो मत्वा मुधा जन्तवो
धावन्त्युद्यमिनस्तथैव निभृतं प्रारब्धतत्तत्कियाः ।
व्यापारैः पुनरुक्तभूतविषयैरित्यं विधेमामुना
संसारेण कदर्शिता वयमहो मोहं न जानीमहे ॥ ४१ ॥
न ध्यातं पदमीश्वरस्य विधिवत्संसारविच्छित्तये
स्वर्गद्दारकपाटपाटनपटुर्धर्मोपि नोपार्जितः ।
नारीपीनपयोधरोरुयुगलं स्वप्नेपि नालिङ्गितं
मातुः केवलमेव यौवनवनच्छेदे कुठारा वयं ॥ ४२ ॥
नाभ्यस्ता भुवि वादिन्ददमनी विद्या विनीतोचिता

24