पृष्ठम्:काव्यसंग्रहः.pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

I वैराग्यशतकं । कालमहिमाः | सा रम्या नगरी महान् स नृपतिः सामन्तचक्रब्द तत् पार्श्वे तस्य च सा विदग्धपरिषत्ताञ्चन्द्रविम्बामनाः । १८५ उन्मत्तः स च राजपुत्रनिवहस्ते वन्दिनस्ताः कथाः सर्वं यस्य वशादगात् स्मृतिपथं कालाय तस्मैः नमः ॥ ३८ ॥ यत्रानेकः क्वचिदपि च गृहे तच तिष्ठत्यथैको यत्राप्ये कस्तदनु वहवस्तच नैकोपि चान्ते । इत्यश्वेमौ रजनिदिवसौ दोलयन् दाविवक्षी कालः काल्या भुवनफलके क्रीडति प्राणिसारैः ॥ ३८ ॥ आदित्यस्य गतागतैरहरहः संक्षीयते जीवनं व्यापारैर्बहुनार्यभारगुरुभिः कालो न विज्ञायते । दृष्ट्वा जन्मजराविपत्तिमरणं चासञ्च नोत्पद्यते बीत्वा मोहमयीं प्रमादमदिरामुमत्तभूतं जगत् ॥ ४० ॥ राचिः सैव पुनः सण्व दिवसो मत्वा मुधा जन्तवो धावन्त्युद्यमिनस्तथैव निभृतं प्रारब्धतत्तत्कियाः । व्यापारैः पुनरुक्तभूतविषयैरित्यं विधेमामुना संसारेण कदर्शिता वयमहो मोहं न जानीमहे ॥ ४१ ॥ न ध्यातं पदमीश्वरस्य विधिवत्संसारविच्छित्तये स्वर्गद्दारकपाटपाटनपटुर्धर्मोपि नोपार्जितः । नारीपीनपयोधरोरुयुगलं स्वप्नेपि नालिङ्गितं मातुः केवलमेव यौवनवनच्छेदे कुठारा वयं ॥ ४२ ॥ नाभ्यस्ता भुवि वादिन्ददमनी विद्या विनीतोचिता भ 24 Digized by Google