पृष्ठम्:काव्यसंग्रहः.pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८४ वैराग्यशतकं । आयुः कल्लोललोखं कतिपयदिवसस्थायिनी यौवनश्रीर् अर्थाः सङ्कल्पकल्या घनसमयतडिद्दिभ्रमा भोगपूगाः । कण्ठाश्लेषोपगूढं तदपि च न चिरं यत्नियाभिः प्रणीतं ब्रह्मण्यासक्तचित्ता भवत भवभयाम्भोधिपारं तरन्तः ॥ ३३॥ कृच्छ्रणामेध्यमध्ये नियमिततमुभिः स्थीयते गर्भवासे कान्ताविश्लेषदुःखव्यतिकरविषमे यौवने चोपभोगः । वामाक्षीणामवज्ञाविहसितवसतिर्ह इभावो प्यसाधुः [॥ ३४ ॥ संसारे रे मनुष्या वदत यदि सुखं स्वल्पमप्यस्ति किञ्चित् व्याघ्रीव तिष्ठति जरा परितर्जयन्ती रोगाच शत्रवद्रव प्रहरन्ति देहे । आयुः परित्रवति भिन्नघटादिवाम्भो लोकस्तथाप्यहितमाचरतीति चिथं ॥ ३५ ॥ मोगा भङ्गुरहत्तयो बहुविधास्तैरेव चायं भवस् तत्कस्येहकृते परिभ्रमत हे लोकाः कृतं चेष्टितं । श्राशापाशशतोपशान्तिविशदं चेतः समाधीयतां काम्योत्पत्तिवशे स्वधामनि यदि श्रयमस्मद्दचः ॥ ३६॥ ब्रह्मेन्द्रादिमरुणांस्तृगणान् यत्र स्थितो मन्यते यच्छापादिरसा भवन्ति विभवास्त्रैलोकाराज्यादयः । बोधः कोपि सएकएव परमो नित्योदितो जृम्भते भोःसाधो क्षणभङ्गुरे तदितरे भोगे रतिं मा कृथाः ॥३७॥ ★ Google Digized by