आयुः कल्लोललोंल कतिपयदिवसस्थायिनी यौवनश्रीर्
अर्थाः सङ्कल्पकल्या घनसमयतडिद्दिभ्रमा भोगपूगाः ।
कण्ठाश्लेषोपगूढं तदपि च न चिरं यत्नियाभिः प्रणीतं
ब्रह्मण्यासक्तचित्ता भवत भवभयाम्भोधिपारं तरन्तः ॥ ३३॥
कृच्छ्रणामेध्यमध्ये नियमिततमुभिः स्थीयते गर्भवासे
कान्ताविश्लेषदुःखव्यतिकरविषमे यौवने चोपभोगः ।
वामाक्षीणामवज्ञाविहसितवसतिर्हइभावोप्यसाधुः
संसारे रे मनुष्या वदत यदि सुखं स्वल्पमप्यस्ति किञ्चित्
व्याघ्रीव तिष्ठति जरा परितर्जयन्ती
रोगाच शत्रवद्रव प्रहरन्ति देहे ।।३४।।
आयुः परित्रवति भिन्नघटादिवाम्भो
लोकस्तथाप्यहितमाचरतीति चिथं ॥ ३५ ॥
मोगा भङ्गुरहत्तयो बहुविधास्तैरेव चायं भवस्
तत्कस्येहकृते परिभ्रमत हे लोकाः कृतं चेष्टितं ।
श्राशापाशशतोपशान्तिविशदं चेतः समाधीयतां
काम्योत्पत्तिवशे स्वधामनि यदि श्रयमस्मद्दचः ॥ ३६॥
ब्रह्मेन्द्रादिमरुणांस्तृगणान् यत्र स्थितो मन्यते
यच्छापादिरसा भवन्ति विभवास्त्रैलोकाराज्यादयः ।
बोधः कोपि सएकएव परमो नित्योदितो जृम्भते
भोःसाधो क्षणभङ्गुरे तदितरे भोगे रतिं मा कृथाः ॥३७॥
पृष्ठम्:काव्यसंग्रहः.pdf/१९७
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८४
वैराग्यशतकं