पृष्ठम्:काव्यसंग्रहः.pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैराग्यशतकं । सर्वत्रान्वहमप्रयत्नसुलभं साधुप्रियं पावनं शम्भोः सचमवार्यमक्षयनिधिं शंसन्ति योगीश्वराः ॥ २७॥ भोगे रोगभयं कुले च्युतिभयं वित्ते ढपालाइयं माने दैन्यभयं वले रिपुभयं रूपे तरुण्याभयं । शास्त्रे वादिभयं गुणे स्खलभयं काये कृतान्तामयं सर्वं वस्तु भयान्वितं भुवि नृणां वैराग्य मेवाभयं ॥ २८ ॥ आक्रान्तं मरसेन जन्मजरसा यात्युत्तमं यौवनं सन्तोषोधनलिप्सया शमशुखं प्रौढाङ्गनाविभ्रमैः । लोकैर्मत्सरिर्भिर्गुणावनभुवोव्यालैर्नृपादुर्जनैर् अस्थैर्येण विभूतयोप्युपता ग्रस्तं न किङ्गेन वा ॥ २८ ॥ आधिव्याधिशतैर्जनस्य विविधरारोग्यमुन्मूल्यते लक्ष्मीर्यच पतन्ति तच विद्वतद्वाराइव प्रापदः । जातं जातमवश्यमासु विवशं मृत्युः करोत्यात्मसात् तत्किफेन निरकुशेन विधिना यनिर्मितं सुस्थिरं ॥ ३० ॥ भोगास्तुङ्गतरङ्गतुल्यतरलाः प्राणाः क्षणध्वंसिनः स्तोकान्येव दिनानि यौवनसुखं स्फुर्तिः क्रियासु स्थिता । तत्संसारमसारमेव निखिलं बुध्वा बुधा बोधका लोकानुग्रहपेशलेन मनसा यत्नः समाधीयतां ॥३१॥ भोगा मेघविताममध्यविलसत्सौदामिनीचञ्चला आयुर्वायुविघट्टिताब्भ्रपट सोच्छिन्नाम्बु बरं । लोला यौवनलालसास्तनुभृतामित्याकलय्य द्रतं योगे धैर्यसमाधिसिञ्चिसुलभे बुद्धिं विधठ बुधाः ॥ ३२ ॥ - Dige. Zed by Google