पृष्ठम्:काव्यसंग्रहः.pdf/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८२ वैराग्यशतकं । गङ्गातरङ्गकणशीकरशीतलानि विद्याधराध्युषितचारुशिलातलानि । स्थानानि किं हिमवतः प्रलयं गतानि यत्सापमानपरपिण्डरता मनुष्याः ॥ २२ ॥ किं कन्दाः कन्दरेभ्यः प्रलयमुपगतानिर्झरा वा गिरिभ्यः प्रध्वस्ताः किं महीजाःसरसफलभृतोवस्कलिन्यश्च शांखाः । वोक्ष्यन्ते किं मुखानि प्रसभमपंगतप्रश्रयाणां खलानां दुःखोपात्ताल्पवित्तस्मयपवनवशान्त्रर्तितभूलतानि ॥२३॥ पुण्यैर्मूलफलप्रियप्रणयनीं प्रीतिं कुरुषाधुना भूशय्या नवपल्लवैरकृपणैरुत्तिष्ठ यामो वनं । क्षुद्राणामविवेकमूढमनसा तबेश्वराणां सदा वित्तव्याधिविकारविह्वलगिरां नामापि न श्रूयते ॥ २४ ॥ फलं स्वेच्छालभ्यं प्रतिवनमखेदं क्षितिरुहां पयः स्थाने स्थाने शिशिरमधुरं पुण्यसरितां । मृदुस्पर्शी शय्या सुललितलता पलवमयी सहन्ते सन्तापं तदपि धनिनां द्वारि कृपणाः ॥ २५ ॥ ये वर्तन्ते धनपतिपुरः प्रार्थनादुःखभाजो ये चाल्पत्वं दधति विषयाक्षेपपर्यस्तबुद्धेः । तेषामन्तः स्फुरितहसितं वासराणां स्मरेयं ध्यानछेदे शिखरिकहरग्रावशय्यानिषणः ॥ २६ ॥ भिक्षाहारमदैन्यमप्रतिहतं भीतिछिदं सर्वदा दुर्मात्सर्यमदाभिमानमथनं दुःखौघविव्धंसनं । Digi zed by Google