सामग्री पर जाएँ

पृष्ठम्:काव्यसंग्रहः.pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८०
वैराग्यशतक ।

विषयपरित्यागविडम्बना ॥
अवश्यं यातारश्विरतरमुषित्वापि विषया

वियोगे को भेदस्यजति न जनो यत्खयममून्।
व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसः
स्वयन्त्यक्तास्वेते शममुखमनन्तं विदधति ॥ १२॥

ब्रह्मज्ञानविवेकनिर्मखधियः कुर्वन्त्यही दुष्करं
यन्मुच्चन्युपभोगभाड्यपि धनान्येकान्ततो निस्पृहाः ।

सम्प्राप्तानि पुरा न संम्प्रति न च प्राप्तौ दृढप्रत्ययो
वांछामाचपरिग्रहाण्यपि परित्यकुत्र शक्तावयं ॥ १३ ॥

धन्यानां गिरिकन्दरेषु वसतां ज्योतिः परं ध्यायताम्
श्रानन्दाश्रुकणान्पिवन्ति शकुना निःशङ्मङ्गेशयाः ।
अस्माकं तु मनोरथोपरचितप्रासादवापीतट

क्रीडाकाननकेखिकौतुकजुषामायुः परं क्षीयते ॥ १४॥
स्तनौ मांसग्रंन्धी कनककलशावित्युपमितौ

मुखं श्लेषागारं तदपि च शशाङ्गेन तुखितं ।

स्रवन्मूचखिन्नं करिवरकरस्यर्डि जघनं
मुहुर्निन्द्यं रूपं कविवरविशेषैर्गुरु छतं ॥ १५ ॥
भिक्षाशनं तदपि नीरसमेकवारं

शय्या च भूः परिजनो निजदेहमाचं ।
वखं च जीर्णशतखण्डमलीनकन्था
हाहा तथापि विषयान्न परित्यजन्ति ॥ १६ ॥