पृष्ठम्:काव्यसंग्रहः.pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैराग्यशतकं । १७९ प्राप्तः काणवराटकोपि न मया तृष्णेऽधुना मुच मां ॥ ५ ॥ खलोल्लापाः सोढाः कथमपि तदाराधनपरैर् निटंयान्तर्वास्पं इसितमपि शून्येन मनसा । कृतश्चित्तस्तम्भः प्रतिहतधियामचलिरपि त्वमाशे मोघाशे किमु परमतो नर्तयसि मां ॥ ६ ॥ श्रमीषां प्राणामां तुलितविसिनीपचपयसां कृते किनास्माभिर्विगलितविवेकैर्व्यवसितं । पदाव्यानामग्रे द्रविणमनिस्संज्ञमनसां कृतं वीसब्रीडैर्निजगुणकथापातकमपि ॥ ७ ॥ भोगा न भुक्ता वयमेव भुक्तास्तपो न तप्तं वयमेव तप्ताः । कालो नयातोवयमेव यातास्तृष्णा न जीर्णा वयमेवजीर्णाः वलिभिर्मुखमाकान्तं पलितैरहितं शिरः । [1८1. गाषाणि शिथिलायन्ते तृष्णैका तरुणायते ॥ ८॥ निहत्ता भोगेका पुरुषवहुमानोपि गलितः समानाः स्वर्याताः सपदि सुहृदो जीवितसमाः शनैर्यच्युत्थामं धनतिमिररुच नयने अहो दुष्टः कायस्तदपि मरणोपायचकितः ॥ १० ॥ आशा नाम सदी मनोरथजला तृष्णातरङ्गाकुला रागग्राहवती वितर्कविहगा धर्मद्रुमध्वंसिनी । मोहावर्तसुदुस्तरातिगहना प्रोत्तुङ्गचिन्तातटी तस्याः पारगंता विशुद्धमनसो नन्दन्ति योगीश्वराः ॥११॥ Digitzed by Google