स जातो येन जातेन याति वंशः समुन्नतिं ।
परिवर्तिनि संसारे मृतः को वा न जायते ॥ ६८ ॥
लज्जां गुणौघजननीं जननीमिवस्वाम्
अत्यन्तशुद्धहृदयामनुवर्तमानाः ।
तेजस्विनः सुखमसूनपि सन्त्यजन्ति
सत्यव्रतव्यसनिनो न पुनः प्रतिज्ञां ॥ ८८ ॥
सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु ।
ग्रकृतिरियं सत्यवतां न खलु वयस्तेजसो हेतुः ॥ १०० ॥
किङ्कर्मस्य भरव्यथा न वपुषि क्षमां क्षिपत्येष यत्
किं वा नास्ति परिश्रमो दिनपतेरस्तेन यनिश्चलः ।
किन्वङ्गीकृतमुत्सृजन्न मनसा खायो जनो लज्जते
निर्वाह: प्रतिपन्नवस्तुषु सतामेतङ्गिं गोचव्रतं ॥ १०१ ॥
दूरादर्थं घटयति नवन्दूरतश्चापशब्दं
त्यक्का भूयो भवति नियतं सत्सभारञ्जनेषु ।
मन्दम्मन्दं रचयति पदं लोकचित्तानुवृत्त्या
कामं मन्त्री कविरिव सदा खेदभारैरमुक्तः ॥ १०२ ॥
दैवेन प्रभुणा स्वयञ्जगति यद्यस्य प्रमाणीकृतं
तत्तस्योपनयेन्मनागपि महान्नैवाश्रयः कारणं ।
सर्वाशापरिपूरके जलधरे वर्षत्यपि प्रत्यहं
सूक्ष्माएव पतन्ति चातकमुखे द्विचाः पयोविन्दवः ॥ १०३ ॥
अभिमुखनिहतस्य सतस्तिष्ठतुं तावज्जयो थवा स्वर्गः ।
उभयवलसाधुवादः श्रवणसुखस्यैव तात्पर्यं ॥ १०४
पृष्ठम्:काव्यसंग्रहः.pdf/१८९
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७६
नीतिशतकं ।