पृष्ठम्:काव्यसंग्रहः.pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७२ तीतिशतकं । सत्यान्ता च परुषा प्रियवादिनी च हिंसा दयालुरपि चार्थपरा वदान्या । नित्यव्यया प्रचुरनित्यधनागमा च वाराङ्गनेव दपनीतिरनेकरूपण | ७३ ॥ न कश्चिञ्च एड कोपानामात्मीयोनाम भूभुजां । होतारमपि शुचन्तं स्पृष्टो दहति पावकः ॥ ७४ विपदि महतान्यैर्यध्वंसं यदीक्षित मोहसे विरम विरसायासाद्दुराध्यवसायतः । अपि जडविधेः कल्पापाये व्यपेत निजक्रमः कुलशिखरिणः क्षुद्रा नैते न वा जलाशयः ॥ ७५ ॥ करुणत्वमकारणविग्रहः परधनाय रतिः परयोषिति । सुजनबन्धुजनेवसहिष्णुता प्रकृतिसिहमिदं हि दुरात्मनां ॥ ७६ ॥ कान्ताकटाक्षविशिखा न खनन्ति यस्य चित्तं न निर्दहति कोपकृशानुतापः । कर्षन्ति भूरिविषयाच न लोभपाण लोकत्रयं जयति कृत्स्स्रमिदं स वीरः ॥ ७७ ॥ आरम्भगुर्वक्षयिणी कमेण लध्वी पुरा वृद्धिमती च पञ्चात् । दिनस्य पूर्वाईपराईभिन्ना छायेव मैची खलु सज्जनानां ॥ ७८ ॥ night red by Google [1]