इयत्येतस्मिन् वा निरवधिचमत्कात्यतिशये
वराहो वा राहुः प्रभवति चमत्कारविषयः ।
महीमेको मग्नां यदयमवहहन्तसलिलैः
शिरःशेषः शंचुर्निगिलति परं सन्त्यजति च ॥ ६७ ॥
श्रोत्रं श्रुतेनैव न कुण्डलेन
दानेन पार्णिर्न च ककणेन ।
विभाति कायः करुणापराणां
परोपकारैर्न चन्दनेन ॥६८ |
जयन्ति ते सुकृतिनो रसवैयाः कवीश्वराः ।.
नास्ति येवां यशः काये जरामरणजन्मभिः ॥ ६८ ॥
यद्धात्रा निजभालपट्ट लिखितं स्तोकं महद्वा धनं
तत्प्राप्नोति मरुस्थलेऽपि नितरां मेरौ ततो नाधिकं ।
तद्धीरो भव वित्तवत्सु कृपणां वृत्तिं वृथा मा कृथाः
कूपे पश्य पयोनिधावपि घटो गृह्णाति तुल्य जलं ॥ ७० ॥
लाङ्गूलचालमधश्च रणावपातं
भूमौ निपत्य वदनोदरदर्शनं च ।
श्वा पिण्डदस्य कुरुते गजपुङ्गवस्तु
धीरं विलोकयति चाटुशतैश्च भुंक्ते ॥ ७१ ॥
राजन् दुधुक्षसि यदि क्षितिधेनुमेतां
तेनाद्य वत्समिव लोकममुं पुषाण ।
तस्मिंश्च सम्यगनिशं परि पोष्यमाणे
नानाफलैः फलति कल्पलतेव भूमिः ॥ ७२ ॥
पृष्ठम्:काव्यसंग्रहः.pdf/१८४
दिखावट
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७१
नीतिशतकं ।