पृष्ठम्:काव्यसंग्रहः.pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६८ नीतिशतकं । चेतः प्रसादयति दिक्षु तनोति कीर्ति सत्सङ्गतिः कथय किं न करोति पुंसां ॥ ४८ ॥ वांछा सज्जनसङ्गमे गुसिगले प्रीतिगुरौ नम्रता विद्यायां व्यसनं स्वयोषिति रतिर्लोकापवादाद्वयं । भक्तिः शूलिनि शक्तिरात्मदमने संसर्गमुक्तिः खले एते यत्र वसन्ति निर्मलगुणास्तेभ्योनरेभ्योनमः ॥ ४८ ॥ हृदयन्तथैव वदनं यदर्पणान्तर्गतं भावः पर्वतसूक्ष्म मार्गविषमः स्त्रीणान्न विज्ञायते । चित्तं पुष्करपचतोयतरलं विदद्धिराशंसितं नारी नाम विषाकरिव लतादोषैः समंवर्धिता ॥ ५० ॥ तृष्णां छिन्धि भज क्षमाजहि मदं पापे रतिम्मा कृथाः सत्यं ब्रूह्मनुयाहि साधु पदवीं सेवस्व विदज्जनान् । मान्यान्मानय विद्विषोप्यनुनय प्रच्छादय स्वान् गुणान् कीर्ति पालय दुःखिते कुरु दयामेतत्सता वेष्ठितं ॥ ५१ ॥ गुणवदगुणवडा कुर्वता कार्यजातं परिणतिरवधार्या यत्नतः पण्डितेन । अतिरभसक्कृतानाङ्कर्मणामाविपत्तेर् भवति हृदयदाही शल्यतुल्यो विपाकः ॥ ५२ ॥ एको देवः केशवो वा शिवो वा एकं मिषं भूपतिर्वा यतिर्वा । एको वासः पत्तने वा बने वा एका भार्या सुन्दरी वा दरी वा ॥ ५३॥ Digitized by Google