सामग्री पर जाएँ

पृष्ठम्:काव्यसंग्रहः.pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६७
नीतिशतकं।


अम्भोजिनीवननिवासविलासहेतुं
हंसस्य हन्तुमपरामपि तां विधाता ।
नो तस्य दुग्धजलभेदविधौ प्रणस्तां
वैदग्धकीर्तिमपहन्तुमसौ समर्थः ॥ ४३ ॥
खल्वाटोदिवसेश्वरस्य किरणॆ सन्तापिते मस्तके
वांछन्देशमनातपं विधिवशादिल्वस्य मूलङ्गतः ।
तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः
प्रायो गच्छति यच भाग्यरहितस्तचैव यान्त्यापदः ॥ ४४ ॥
नैवाकृतिः फलति नैव कुलं न शीलं
विद्यापि नैव न च यत्रतापि सेवा |
भाग्यानि पूर्वतपसा किल सञ्चितानि
काले फलन्ति पुरुषस्य यथैव वृक्षाः ॥ ४५ ॥
रौश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्यमो
ज्ञानस्योपशमः शमस्य विनयो वित्तस्य पात्रे व्ययः ।
अक्रोधस्तपसः क्षमा प्रभवितुर्धर्मस्य निर्व्याजता
सर्वेषामपि सर्वकालनियमं शीलं परम्भूषणं ॥ ४६॥
एते सत्पुरुषाः परार्थघटकाः स्वार्थं परित्यज्य ये
सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये ।
तेमी मानुषराक्षसाः परहितं स्वार्थाय विघ्नन्ति ये
ये त नन्ति निरर्थकं परहितं ते के न जानीमहे ॥ ४७ ॥
जायं धियोहरति सिञ्चति वाचि सत्यं
मानोन्नतिं दिशति पायमपाकरोत |