सामग्री पर जाएँ

पृष्ठम्:काव्यसंग्रहः.pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६६
नीतिशतकं

संतप्तायसि संस्थितस्य पयसोनामापि न ज्ञायते
मुक्ताकारतया तदेव नलिनीपत्र स्थितं राजते ।
स्वात्यां सागरसुक्तिमध्यपतितं मुक्ताफलं जायते
प्रायेणाधममध्यमोत्तमगुणः संसर्गतोजायते ॥३७॥
ब्रह्मा येन कुलालवतनियमतिीब्रह्माण्डभाण्डोदरे
विष्णुर्येन दशावतारगहने क्षिप्तोमहासङ्कटे ।
रुद्रो येन कपालपाणिपुटके भिक्षाटनङ्कारितः
सूर्यो भ्राम्यति नित्यमेव गगन तस्मै नमः कर्मणे ॥३८॥
कुसुमस्तवकस्येव दे वृत्ती तु मनस्विनः ।
सर्वलोकस्य वा मूर्ति विशीर्येत वनेव वा ॥ ३८ ॥
मौनान्नूकः प्रवचनपटुर्वातुलोजल्पकोवा
क्ष्यान्त्या भीरुर्यदि न सहते प्रायसो नाभिजातः ।
धृष्टः पार्श्वे स भवति जनो दूरतश्चाप्रगल्भः
सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥ ४० ॥
नम्रत्वेनोवमन्तः परगुणनुतिभिः स्वान्गुणान् स्थापयन्तः
स्वार्थान् सम्पादयन्तोविनतपृथुतरारम्भयन्तः परार्थे ।
क्षान्त्ये वाक्षेपरुक्षाक्षरमुखरमुखान्दुर्मुखान्दूषयन्तः
सन्तःसाश्चर्यचर्याजगति बहुमताः कस्य नाभ्यर्थनीयाः ॥४१
लोभञ्चास्ति गुणेन किं पिशुनता यद्यस्ति किम्पातकैः
सत्य त्तपसा च कि शुचिमनो यद्यस्ति तीर्थेन किं ।
सौजन्यं यदि किन्निजैः स्वमहिमा यद्यस्ति किम्मण्डणैः
 सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥ ४२ ॥