पृष्ठम्:काव्यसंग्रहः.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षड्रत्वं । को वा दुर्जनवाग्रसे प्रपतितः क्षेमेण यातः पुमान् ॥२॥ मूर्खो द्विजातिःस्थविरो गृहस्थः कामी दरिद्रो धनवान् तपस्वी । वेस्या कुरूपा नृपतिः कदर्भ्यः लोके षडेतानि विडम्बितानि ॥ ३ ॥ दानं दरिद्रस्य प्रभोञ्च शान्ति र्यूनां तपो ज्ञानवतांच मौनं । इछानिवृत्तिथ सुखासितानां दया च भूतेषु दिवं नयन्ति ॥ ४ ॥ दुर्म्मन्त्रिणं कमुपयान्ति न नीतिदोषाः सन्तापयन्ति कमपथ्यभुजं न रोगाः । कं श्रीर्न दर्पयति कं न निहन्ति मृत्युः कं स्वीकृता न विषया न नु तापयन्ति ॥ ५ ॥ लोभोप्यस्ति गुणेन किं पिशुनता यद्यस्ति किं पातकैः सौजन्यं यदि किं परैः सुमहिमा यद्यस्ति किं मंडनैः । सत्यं चेत्तपसा च किं शुचिमनो यद्यस्ति तीर्थेन किं सहिद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥ ६ ॥ इति षड्रलं समाप्तं । सप्तरत्वं । • बांछा राजा तथा छेदो वृक्षं विशेन किं तथा । वर्गो धमेन किं ज्ञेयं सप्तरलमिदं क्रमात् || वांछा सज्जनसंगमे परगुणे प्रीति गुरौ नम्रता विद्यायां व्यसनं स्वयोषिति रति लोकापवादाद भयं । Digized by Google