सामग्री पर जाएँ

पृष्ठम्:काव्यसंग्रहः.pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
पञ्चरत्नम्

को वा दुर्जनवाग्रसे प्रपतितः क्षेमेण यातः पुमान् ॥ २॥
मूर्खो द्विजातिःस्थविरो गृहस्थः
कामी दरिद्रो धनवान् तपस्वी ।
वेश्या कुरूपा नृपतिः कदर्यः
लोके षडेतानि विडम्बितानि ॥३॥
दानं दरिद्रस्य प्रभोश्च शान्तिर्यूनां तपो ज्ञानवताञ्च मौनम् ।
इच्छानिवृत्तिश्च सुखासितानां दयाचभूतेषुदिवन्नयन्ति ॥४॥
दुर्मन्त्रिणं कमुपयान्ति न नीतिदोषाः
सन्तापयन्ति कमपथ्यभुजं न रोगाः ।
कं श्रीर्न दर्पयति कं न निहन्ति मृत्युः
कं स्त्रीकृता न विषया न नु तापयन्ति ॥५॥
लोभोप्यस्ति गुणेन किं पिशुनता यद्यस्ति किं पातकैः
सौजन्यं यदि किं परैः सुमहिमा यद्यस्ति किं मण्डनैः ।
सत्यं चेत्तपसा च किं शुचिमनो यद्यस्ति तीर्थेन किं
सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥६॥
इति षड्ररत्नं समाप्तम् ।
सप्तरत्नं ।
वाञ्छा राजा तथा छेदो वृक्षं वित्तेन किं तथा ।
खर्गो धनेन किं ज्ञेयं सप्तरत्नमिदं क्रमात् ॥
वाञ्छा सज्जनसङ्गमे परगुणे प्रीतिर्गुरौ नम्रता
विद्यायां व्यसनं स्वयोषिति रतिर्लोकापवादाद्भयम् ।