सामग्री पर जाएँ

पृष्ठम्:काव्यसंग्रहः.pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
पञ्चरत्नम्

राजानञ्च कुमन्त्रिभिः परिवृतं देशञ्च सोपद्रवं
भार्यां यौवनगर्वितां पररतां मुञ्चन्तु शीघ्रं बुधाः ॥३॥
क्षान्तिश्चेत् कवचेन किं किमरिभिः क्रोधोऽस्ति चेद्देहिनां
ज्ञातिश्चेदनलेन किं यदि सुहृद् दिव्यौषधैः किं फलं।
किं सर्पैर्यदि दुर्जनः किमु धनैर्विद्यानवद्या यदि
ब्रीडा चेत् किमु भूषणेन कविता यद्यस्ति राज्येन किम् ॥४॥
शक्यो वारयितुं जलेन हुतभुक् छत्रेण सूर्यातपः
नागेन्द्रो निशिताङ्कुशेन चपलौ दण्डेन गोगर्द्दभौ ।
व्याधिर्वैद्यकभेषजैरनुदिनं मन्त्रप्रभावाद् विषं
सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम् ॥५॥
इति पञ्चरत्नं समाप्तम् ।
षडरत्नम् ।
शास्त्रं कोर्थां स्तथा मूर्खो दानं दुर्मन्त्रिणं तथा ।
लोभोप्यस्तीति विज्ञेयं क्रमात् षड्रत्नमीरितम् ।
शास्त्रं सुचिन्तितमथो परिचिन्तनीयं
आराधितोऽपि नृपतिः परिशङ्कनीयः ।
अङ्के स्थितापि युवती परिरक्षणीया
शास्त्रे नृपे च युवतौ च कुतो वशित्वम् ॥१॥
कोर्थान् प्राप्य न गर्वितो विषयिनः कस्यापदो नागताः
स्त्रीभिः कस्त्र न खण्डितं भुवि मनः को नाम राज्ञां प्रियः ।
कः कालस्य न गोचरान्तरगतः कोर्थी गतो गौरवं