सामग्री पर जाएँ

पृष्ठम्:काव्यसंग्रहः.pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
पञ्चरत्नम्

वित्ताद्यः कृपणः सुखी परवशो वृद्धो न तीर्थाश्रितः ।
राजा दुःसचिवप्रियः कुलभवो मूर्खः पुमां स्त्रीजितो
वेदांती हतसत्क्रियः किमपरं हास्यास्पदं भूतले ॥८॥
उत्खातान् प्रतिरोपयन् कुसुमितांञ्चिन्वन् शिशून् वर्द्धयन्
प्रोत्तुंगान् नमयन् नतान् समुदयन् विश्लेषयन् संहतान् ।
तीव्रान् कंटकिनो बहिर्नियमयन् ग्लानान् मुहुः सचयन्
मालाकार इव प्रयोगनिपुणो राजा चिरं नंदतु ॥९॥
इति नवरत्नं समाप्तं ।

पंचरत्नं ।


नागः पोतस्तथा वैद्यं क्षान्तिः शक्यं यथाक्रमम् ।
पञ्चरत्नमिदं प्रोक्तं विदुषामपि दुर्लभम् ।
नागो भाति मदेन कं जलरुहैः पूर्णेन्दुना सर्व्वरी
शीलेन प्रमदा जवेन तुरगो नित्योत्सवैर्मन्दिरम् ।
वाणी व्याकरणेन हंसमिथुनैर्नद्यः सभा पण्डितैः
सत्पुत्रेण कुलं नृपेण वसुधा लोकत्रयं विष्णुना ॥१॥
पोतो दुस्तरवारिराशितरणे दीपोऽन्धकारागमे
निर्वाते व्यजनं मदान्धकरिणां दर्पोपशान्त्यै शृणिः ।
इत्यं तत् भुवि नास्ति यस्य विधिना नोपायचिन्ता कृता
मन्ये दुर्जनचित्तवृत्तिहरणे धातास्ति भग्नोद्यमः ॥२॥
वैद्यं पानरतं नटं कुपठितं स्वाध्यायहीनं द्विजं
युद्धे कापुरुषं हयं गतरयं मूर्खं परिव्राजकं ।