पृष्ठम्:काव्यसंग्रहः.pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६० नीतिशतकं । यां चिन्तयामि सततं मयि सा विरक्ता सा चान्यमिच्छति जनं स जनोन्यरक्तः । अस्मत्कृतेपि परितुष्यति काचिदन्या धिक् ताश्च तश्च मदनच इमाच्च माय ॥ १ ॥ अज्ञः सुखमाराध्यः सुख़तरमाराध्यतेऽशेषज्ञः । ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं नरञ्जयति ॥ २ ॥ लभेत सिकतासु तैलमपि यत्नतः पीडयन् पिवेञ्च मृगतृष्णिकासु-सलिलं पिपासार्दितः । कदाचिदपि पर्यदन् शशविषाणमासादयेन् नतुप्रतिनिविष्ठमूर्खजनचित्तमाराधयेत् ॥ ३ ॥ प्रसद्य मणिमुइरेन्मकरवक्त्रदंष्ट्रांकुरात् समुद्रमपि संतरेत् चपलमुर्मिमालाकुलं । भुजङ्गमपि कोपितं शिरसि पुष्पवद्धारयेन् नतुप्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ ४॥ शशो दिवसधूसरोगलितयौवना कामिनी सरोविगतवारिजं मुखमनक्षरं स्वाकृतेः । प्रभुर्धनपरायणः सततदुर्गतः सज्जनो न्नृपाङ्गणगतः खलोमनसि सप्त शल्यानि मे ॥ ५ ॥ मणिः शाणालीढः समरविजयी हेतिनिहतो मदक्षीणोनागः शरदि सरितः श्यामपुलिनाः । Digt: by Google