पृष्ठम्:काव्यसंग्रहः.pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५२ शृङ्गारशतकं । योषनं वा वनं वा ॥ ५६॥ स्तनभरपरिखिनं सत्यं जना वच्मि न पक्षपाताल् लोकेषु सर्वेषु च तथ्यमेतत् । नान्यन्मनोहारि नितम्बिनीभ्यो दुःखैकहेतुर्म च कश्चिदन्यः ॥ ५७ ॥ दुर्विरक्तप्रशंसा | तावदेव कृतिनामपि स्फुरत्पेष निर्मलविवेकदीपकः । यावदेव न कुरङ्गचक्षुषां ताङ्यते चपललोचनांचलैः॥ ५८ ॥ वचसि भवति सङ्गत्यागमुद्दिश्य वार्ता श्रुतिमुखरमुखानां केवलं पण्डितानां । जघनमरुणरत्नग्रन्थिका वीकलापं कुवलयनयमामां कोविज्ञातुं समर्थः ॥ ५८ ॥ स्वपरप्रतारकोसौ निन्दति योऽलीकं पण्डितो युवतीः । यस्मात्तपतोपि फलं स्वर्गः स्वर्गस्यापि फलं तथा सरसः ॥ ६० ॥ मत्तेभकुम्भदलने भुवि संति शूराः केचित्प्रचण्डखगराजवधेपि दक्षाः । किन्तु ब्रवीमि वलिनां पुरतः प्रसय कन्दर्पदर्पदलने विरला मनुष्याः ॥ ६१ ॥ सन्मार्गे तावदास्ते प्रभवति च नरस्तावदेवेन्द्रियाणां Google T प्र 7 315