पृष्ठम्:काव्यसंग्रहः.pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५० शृङ्गारशतकं । वसुधा कन्दलधवला तुष्टिं पथिकः क्व पातयतु ॥ ४६॥ इतोवियुद्दल्ली विलसितमितः केतकितरो स्फुरहन्धः प्रोद्यज्जलदनिनदस्फूर्जितमितः । इतः केकोक्रीडाकलकलरवः पक्ष्मलहशां कथं यास्यन्त्येते विरहदिवसाः सम्भृतरसाः ॥४७॥ असुचिसंसारे त्वमसि नभसि प्रौढजलद ध्वनिप्रासे तस्मिन् पतति हृषदां तीरनिचये । इदं सौदामिन्याः कनककमन विलसितं मुदञ्च ग्लानिञ्च प्रथयति पयिष्ठेव सुदृशां ॥ ४८ ॥ आसारेषु न हर्म्यतः प्रियतमैर्यातं यदा शक्यते शीतोत्कम्पनिमित्तमायतहशीगाढं समालियते । जाताः शीतलशीकराच मरुतोवात्यन्तखेदछिदो धन्यानां यत दुर्दिनं सुदिनतां याति प्रियासङ्गमे ॥४९॥ शरदः ॥ अनीत्वा निशायाः सरभससुरतायासखिलञ्खयाङ्गः प्रोतासंतृष्णा मधुमदनिरसोहर्म्यपृष्ठे विविक्ते । सम्भोगकान्तकान्ता शिथिलभुजलता तर्जितं कर्करान्तो ज्योत्स्नाभिनाधरांशं पिवति न सलिलं शारदं मन्दभाग्यः हेमन्ते दधिदुग्धसर्पिरशनामाविष्ठवासोताः [॥५०॥ काश्मीरद्रवसान्द्रदिग्धवपुषः खिन्ना विचिचैरतैः । पीनोरस्थलकामिनीजनकृताश्लेषासृहाभ्यन्तरे Digized by Google