पृष्ठम्:काव्यसंग्रहः.pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शृङ्गारशतकं । ग्रीष्मः ॥ अच्छाच्छ चन्दनरसाईकराहगायो धारागृहाणि कुसुमानि च कौमुदी च । मन्दोमरुत्सुमनसः शुचि हर्म्यपृष्ठं ग्रीष्मे मदश्च मदनच्च विवर्द्धयन्ति ॥ ४१ ॥ सजोहृद्यामोदाव्यजनपवनञ्चन्द्रकिरणः परागः कासारी मलयजरजः सिन्धुविशदं | सुचिः सौधोत्सङ्गः प्रतनु वसनं पङ्कजहशो निदाघे तु तत्सुखमुपलभन्ते सुकतिनः ॥ ४२ ॥ सुधाशुभ्रन्धाम स्फुरदमलरस्मिः शशधरः प्रियावक्लाम्भोजं मलयजरजवातिसुरभिः । खजोहृद्योसौदास्तदिदमखिलं रागिनि जने करोत्यन्तः क्षोभं नतु विषयसंसर्गविमुखे ॥ ४३ ॥ वर्षासमयः । तरुणीवशा दीपितकामा विकसज्जातीपुष्पसुगन्धिः । उन्नतपीनपयोधरभारा प्रादृट् कुरुते कस्य न इर्ष ॥ ४४ ॥ वियदुपचितमेघम्भूमयः कन्दलिण्यो नबकुटजकदम्बामोदिनो गन्धवाहाः । शिखिकुलकलकेका एव रम्या वनान्ताः सुखिनमसुखिनं वा सर्वमुत्कण्ठयन्ति ॥ ४५ ॥ उपरि घनं घनपटलन्तिर्यग्गिरयोपि नर्तितमयूराः | Digi: zed by १४९ Google 1