पृष्ठम्:काव्यसंग्रहः.pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शृङ्गारशतकं । मुखेम चन्द्रकान्तेन महानीलैः शिरोरुहेः । पाणिभ्यां पद्मरागाभ्यां रेजे रत्नमयीव सा ॥ २२ ॥ संमोहयन्ति मदयन्ति विडम्बयन्ति निर्भत्सयन्ति रमयन्ति विषादयन्ति । एताः प्रविश्य सदयं हृदयं नराणां किनाम वामनयना न समायरन्ति ॥ २३ ॥ विश्रम्य विश्रम्य वमद्रमाणां छायासु तम्बी विचचार काचित् । स्तनोत्तरीयेण करोड़तेन निवारयन्ती शशिनी मयूखान् ॥ २४ ॥ श्रदर्शने दर्शनमाचकामा दृष्टा परिवङ्गरसैकलोला । आलितियां पुनरायताच्याम् आशास्महे विग्रहयोरभेदं ॥ २५ ॥ मालती शिरसि जम्भणोन्मुखी चन्दनं वपुषि कुङ्कुमाविलं । वक्षसि प्रियतमा मनोहरा स्वर्ग एष परिशिष्टआगतः ॥ २६ ॥ Tigic red by Google