सामग्री पर जाएँ

पृष्ठम्:काव्यसंग्रहः.pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४६
ङ्गारशतकं ।

मुखेम चन्द्रकान्तेन महानीलैः शिरोरुहेः ।
पाणिभ्यां पद्मरागाभ्यां रेजे रत्नमयीव सा ॥ २२ ॥
संमोहयन्ति मदयन्ति विडम्बयन्ति
निर्भत्सयन्ति रमयन्ति विषादयन्ति ।
एताः प्रविश्य सदयं हृदयं नराणां
किनाम वामनयना न समायरन्ति ॥ २३ ॥
विश्रम्य विश्रम्य वमद्रमाणां
छायासु तम्बी विचचार काचित् ।
स्तनोत्तरीयेण करोड़तेन
निवारयन्ती शशिनी मयूखान् ॥ २४ ॥
श्रदर्शने दर्शनमाचकामा
दृष्टा परिवङ्गरसैकलोला ।
आलितियां पुनरायताच्याम्
आशास्महे विग्रहयोरभेदं ॥ २५ ॥
मालती शिरसि जम्भणोन्मुखी
चन्दनं वपुषि कुङ्कुमाविलं ।
वक्षसि प्रियतमा मनोहरा
स्वर्ग एष परिशिष्टआगतः ॥ २६ ॥