पृष्ठम्:काव्यसंग्रहः.pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४२ श्रमरुशतकं । लावण्यवारिपरिपूरितशातकुम्भ कुम्भौ मनोजन्हपतेरभिषेचनाय ॥ १५ ॥ चपलहृदये किं स्वातन्त्र्यात्तथा गृहमागतः. चरणपतितः प्रेमार्द्रार्द्रः प्रियः समुपेक्षितः । तदिदमधुना यावज्जीवं निरस्तसुखोदया रुदितशरणा दुर्जातीनां सहस्व रुषां फलं ॥८६॥ राषौ वारिभरालसाम्बुदरवोद्दिनेन जाता पान्थेनात्ममनोजदुःख पिशुनं गीतं तथोत्कण्डया । श्रस्तां जीवितहारिणः प्रवसनालापस्य संकीर्तन मानस्यापि जलाञ्जलिः सरभसं लोकेन दत्तोयथा ॥ १७ ॥ हारो जलार्द्रवसनं नलिनीदलामि प्रालेयशीकरमुचस्तुहिनांशुभासः । यस्येन्धनानि सरसानि च चन्दनानि निर्वाणमेष्यति कथं स मनोभवाभिः ॥९८॥ तन्वी शत्रिपथगा पुलिने कपोलौ · लोले दृशौ रुचिरचन्चलखरोटी । तदन्धनाय सुचिरार्पितसुभुचाय चाण्डालपाशयुगलाविध शून्यकर्णी ॥ १८ ॥ हारोयं हरिणाक्षीणां लुठति स्तनमण्डले । मुक्तानामप्यवस्थेयं के वयं स्मरकिङ्कराः ॥ १०० इत्यमरुशतकं परिपूर्ण ॥ y] Google Digized by