पृष्ठम्:काव्यसंग्रहः.pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४० श्रमरुशतकं । घन घटयितुं निःस्रेहं यएव निवर्तने प्रभवति गवां किननिं सरव धनञ्जयः ॥ ८४ ॥ स्वं दृष्ट्वा करजक्षतं मधमदक्षीवाविचार्ये या गच्छन्ती क नु गच्छसीति विवता बाला पटान्ते मया । प्रत्याहसमुखी सवाष्यमयना मां मुच्य मुञ्चेति सा कोपात् प्रस्फुरिताधरा यदवदत्तत् केन विस्मर्यते ॥ ८५ ॥ सालक्तकं शतदलाधिककान्तिरम्यं रत्नौघधाम निकरारुणनूपुरञ्च । क्षिप्तं भृशं कुपितया तरलोत्पलाथ्या सौभाग्य चिहमिव मूर्ति पदं विरेजे ॥ ८६ ॥ कपोले पचालीकरतलनिरोधेन मुदिता निपीतो निःश्वासैरयममृतद्योऽधररसः । मुहुः कण्ठे लग्नस्तरलयति वाष्पस्तनतटं प्रियो मन्धुर्भातस्तव निरनुरोधे न तु वयं ॥८७॥ लाक्षालक्ष्म ललाटपट्टमभितः केयूरमुद्रा गले वक्त्रे कज्जलकालिमा नयनयोस्ताम्बूलरागोदयः । दृष्ड्वा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसो लीलातामरसोदरे मृगदृशः श्वासाः समाप्तिं गताः ॥८८॥ तप्ते महाविरहवहि शिखावलीभिर् प्राण्डुरस्तनतटे हृदये प्रियायाः । रथ्यालिवी क्षणनिवेशितलो लद्दष्टेर मूनं छनच्छनिति वाष्पकणाः पतन्ति ॥ ८८ ॥ Thigi. zed by Google