पृष्ठम्:काव्यसंग्रहः.pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रमरुशतकं । दृष्टः कातरनेचया चिरतरं बध्वाञ्जलिं याचितः पश्चादंशुकपल्लवेन विटतो निर्व्याजमालिंगितः । इत्याक्षिप्य यदा समस्तमभृणो गन्तुं प्रवृत्तः शठः पूर्वप्राणपरिग्रहो दयितया मुक्तस्ततो वल्लभः ॥ ७९ ॥ अङ्ग्ल्यप्रनखेन वाष्पसलिलं निक्षिप्य निक्षिप्य किं तूप रोदिधि कोपने बहुतरं फुत्कृत्य रोदिष्यसि । यस्यास्ते पिशुनोपदेशवचनै र्मानेऽतिभूमिं गते निर्विषोऽनुनयं प्रति प्रियतमो मध्यस्थतामेष्यति ॥ ८० ॥ तहक्काभिमुखं मुखं विनसितं दृष्टिः कृता पादयोः | तस्यालापकुतूहलाकुलतरे श्रोचे निरुद्धे मया । पाणिभ्याञ्च तिरस्कृतः सपुलकः स्वेदोहमोगण्डयोः सस्यः किं करवाणि यान्ति शतधा यत्कचुके सन्धयः ॥ ८१॥ कृतो दूरादेव स्मितमधुरमभ्युहमविधिः शिरस्याज्ञा न्यस्ता प्रतिवचनमुच्चैः प्रणमितं । न दृष्टेः शैथिल्यं मिलन इति चेतो दहति मे निगूढान्तः कोपात् कठिणहृदये संवृत्तिरियं ॥ ८२ | एकस्मिन् शयने विषक्षरमणीनामग्र मुग्धया ३ सद्यः कोपपराङ्मुखं शयितया चाटूनि कुर्वन्नपि । १ आवेगादवधीरितः प्रियतमस्तूष्णीं स्थितस्तत्क्षणात् माभूत सुप्तद्वैष मन्दवलितग्रीवं पुनर्विक्षितः ॥ ८३ ॥ मलयमरुतां ब्राता गता विकासित मलिका

परिमलभरो भन्नो ग्रीष्मस्त्वमुत्स इस यदि |

Thigt red by Google