पृष्ठम्:काव्यसंग्रहः.pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३८ अमरुशतकं । असहनसखी श्रोत्रप्राप्तिप्रमादससंभ्रमं प्रचलितहशा शून्ये गेडे समुसितं पुनः ॥ ७३ ॥ आदृष्टिप्रसरं प्रियस्य पदवीमुद्दोख्य निर्विणया विच्छिन्त्रेषु पथिष्ठऽहः परिणतौ ध्वान्ते समुन्नीलति । दत्वैकं सशुचा गृहं प्रतिपदं पान्धस्त्रियास्मिन् क्षणे सोऽभूदागत इत्यमन्दवलितग्रीवं पुनर्जीक्षितः ॥ ७४ ॥ आयाते दयिते मनोरथशतै नीत्वा कथश्विहिनं वैदग्ध्याऽपगमाज्जडे परिजने दीघां कथां कुर्वति । दृष्टास्मीत्यभिधाय सत्वरतरं व्याधूय चीनांशुकं तन्व्यङ्या रतिकातरेण मनसा नीतः प्रदीपः शमं ॥७५ ॥ अनालोक्य प्रेम्णः परिणतिमनादृत्य सुहृदस् त्वया मुग्धे मानः किमिति सरले प्रेयसि कृतः । समाकृष्टा होते प्रलयदइनोहासु र शिखाः स्वहस्तेनाङ्गारास्तदलमधुनारण्यरुदितैः ॥ ७६ ॥ शून्यं वासगृहं विलोक्य शयनादुत्याय किञ्चिच्छनैर् निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखं । विश्रब्धं परिचुप जातपुलकामालोक्य गण्डस्थलों लज्जानबमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥७७॥ आता नोत्कलिका स्तनौ न खुखितौ गात्रं न रोमाञ्चितं वक्वं स्वेदकणाञ्चितं न सहसा यावत् शटेनामुना | दृष्टेनैव मनोहतं धृतिमुषा प्राणेश्वरेणाद्य मे तत्केनापि निरुप्य माननिपुणोमानः समाधीयतां ॥७८॥ Digit:zed by Google