पृष्ठम्:काव्यसंग्रहः.pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रमरुशतकं । लग्ना नांशुकपलवे भुजलता न द्वारदेशोर्पिता नोवा पादतले तया निपतितं तिष्ठेति नोक्तं वचः । काले केवलमम्बुदातिमलिने गन्तुं प्रवृत्तः शठः तन्या वाष्पजलौघकल्पितनदीपूरेण वहः प्रियः ॥ ६२ ॥ न जाने संमुखायाते प्रियाणि बदति प्रिये । सर्वाग्यजानि मे यान्ति श्रोतां किम नेजतां ॥६३॥ विरहविषमः कामो वामस्तनुं कुरुते तनुं दिवसगणनादक्षञ्चासौ व्यपेतघणो यमः । त्वमपि वशगो मानव्याधेर्विचिन्तय नाथ हे किशलयमृदु र्जीवेदेवं कथं प्रमदाजनः ॥ ६४ ॥ पादासक्ते सुचिरमिहते वामता कैव कान्ते सन्मार्गस्थे प्रणयिनि जने कोपने कोऽपराधः । इत्यं तस्याः परिजनकथा कोपवेगोपशान्तौ वाष्पोमेदैस्तदनु सहसा न स्थितं न प्रयातं ॥ ६५ । पुराभूदस्माकं नियतमविभिन्ना तनुरियं ततो नु त्वं प्रेयान् वयमपि हताशाः प्रियतमाः । इदानीं नाथत्वं वयमपि कलचं किमपरं मयाप्तं प्राणानां कुलिशकठिनानां फलमिदं ॥६६॥ मुग्धे मुग्धतयव नेतुमखिलः कालः किमारभ्यते मानं धत्स्व धृतिं वधान ऋजुतां दूरे कुरु प्रेयसि | सस्यैवं प्रतिबोधिता प्रतिवचस्तामाह भीतानना नीचैः शंस हृदि स्थितो ननु स मे प्राणेश्वरः श्रोष्यति ॥६७४ Digi: zed by Google