पृष्ठम्:काव्यसंग्रहः.pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरुशतकं । श्लिष्टः कण्ठे किमिति न मया मूढया प्राणनाथश् चुम्बत्यस्मिन् वदनविधुतिः किं कृता किन्न दृष्टः । नोक्तः कस्मादिति नववधूचेष्टितं चिन्तयन्ती पश्चात्तापं वहति तरुणी प्रेम्सि जाते रसज्ञा ॥ ५६॥ श्रुत्वा नामपि यस्य स्फुटघनपुलकं जायतेङ्गं समन्तात् दृष्ट्वा यस्थाननेन्दुं भवति वपुरिदं चन्द्रकान्तानुकारि । 'तस्मिन्नागत्य कण्ठग्रहणसरभसस्थायिनि प्राणनाथे भग्नामानस्यचिन्ताभवति ममपुनर्वज्ञमय्याः कदामु ॥५७ ॥ रामाणां रमणीयवक्त्र शशिनः स्वेदोदविन्दुमुतो व्यालोलालकवलरीं प्रचलयन् धुम्बम् नितम्बाम्बरं । प्रातर्वाति मधौ प्रकामविकशद्राजीवराजीरजो जालामोदमनोहरो रतिरसलानिं हरम्भारुतः ॥ ५८ ॥ अङ्गं चन्दनपाण्डुपलवमुदुस्ताम्बूलताम्राधरो धारायन्त्रजलाभिषेककलुषे धौताञ्जने लोचने । अन्तः पुष्पसुगन्धिरार्द्रकवरी सर्वाङ्गलाम्बरं रामाणां रमणीयतां विदधति श्रीष्मापराह्नामे ॥ ५८ ॥ वरमसौ दिवसो न पुनर्निशा ननु निशेष वरं न पुनर्दिवा। उभयमेतदुपैत्वथवा क्षयं प्रियजनेन न यत्र समागमः ॥६० लोले लोचनवारिभिः सशपथैः पादप्रणामैः प्रिय रन्यास्ता विनिवारयन्ति कृपणाः प्राणेश्वरं प्रस्थितं । पुण्याहं व्रजमङ्गलं सुदिवसं प्रातः प्रयातस्य ते यत् स्रेहोचितमीहितं प्रियतम त्वं निर्गतः श्रोष्यसि ॥६१ ॥ migt red by Google १३५