श्लिष्टः कण्ठे किमिति न मया मूढया प्राणनाथश्
चुम्बत्यस्मिन् वदनविधुतिः किं कृता किन्न दृष्टः ।
नोक्तः कस्मादिति नववधूचेष्टितं चिन्तयन्ती
पश्चात्तापं वहति तरुणी प्रेम्सि जाते रसज्ञा ॥ ५६॥
श्रुत्वा नामपि यस्य स्फुटघनपुलकं जायतेङ्गं समन्तात्
दृष्ट्वा यस्थाननेन्दुं भवति वपुरिदं चन्द्रकान्तानुकारि ।
'तस्मिन्नागत्य कण्ठग्रहणसरभसस्थायिनि प्राणनाथे
भग्नामानस्यचिन्ताभवति ममपुनर्वज्ञमय्याः कदामु ॥५७ ॥
रामाणां रमणीयवक्त्र शशिनः स्वेदोदविन्दुमुतो
व्यालोलालकवलरीं प्रचलयन् धुम्बम् नितम्बाम्बरं ।
प्रातर्वाति मधौ प्रकामविकशद्राजीवराजीरजो
जालामोदमनोहरो रतिरसलानिं हरम्भारुतः ॥ ५८ ॥
अङ्गं चन्दनपाण्डुपलवमुदुस्ताम्बूलताम्राधरो
धारायन्त्रजलाभिषेककलुषे धौताञ्जने लोचने ।
अन्तः पुष्पसुगन्धिरार्द्रकवरी सर्वाङ्गलाम्बरं
रामाणां रमणीयतां विदधति श्रीष्मापराह्नामे ॥ ५८ ॥
वरमसौ दिवसो न पुनर्निशा ननु निशेष वरं न पुनर्दिवा।
उभयमेतदुपैत्वथवा क्षयं प्रियजनेन न यत्र समागमः ॥६०
लोले लोचनवारिभिः सशपथैः पादप्रणामैः प्रिय
रन्यास्ता विनिवारयन्ति कृपणाः प्राणेश्वरं प्रस्थितं ।
पुण्याहं व्रजमङ्गलं सुदिवसं प्रातः प्रयातस्य ते
यत् स्रेहोचितमीहितं प्रियतम त्वं निर्गतः श्रोष्यसि ॥६१ ॥