सामग्री पर जाएँ

पृष्ठम्:काव्यसंग्रहः.pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
right
।श्रमरुशतकं । ।



नभसि जल
प्रसरसि यदि कान्तेत्यर्श्वमुक्त्वा कथश्चित् ।
मम पटमवलम्ब्य प्रोल्लिखन्ती धरित्रों
तदनुकृतवती सा यच वाचो निवृत्ताः ॥ ५० ॥
इयमसौ तरलायतलोचना गुरुसमुन्नतपीनपयोधरा ।
पृथुनितम्बभरालसगामिनी प्रियतमा मम जीवित
सालक्तकेन नवपल्लवको मलेन
पादेन नूपुरवता मदनालसेन ।
यस्ताङ्यते दयितया प्रणयापराधात्
सोऽङ्गीकृतो भगवता मकरध्वजेन ॥५२॥
बालेनाथ विमुञ्च मानिनि रुषं रोषान्मया किं कृतं
खेदोस्मासु न मेऽपराध्यति भवान् सर्वेऽपराधा मयि ।
तत् किं रोदिषि गह्नदेन वचसा कस्याग्रतो रुद्यते
नन्बेतन् मम का तवास्मि दयिता नास्मीत्यतो रुद्यते ॥ ५३॥
नीत्वोच्चैर्विक्षिपन्तः कृततुहिनकणासारसङ्गान् परागान्
कौन्दानानन्दितालीनतितरसुरभीन् भूरिशो दिंमुखेषु ।
एते ते कुङ्कुमाक्तस्तनकलसभरास्फालनादुच्छलन्तः पीत्वा
पीत्वाशीत्कारिवत्रं शिशुहरिणदृशांहैमनावांतिवाताः ५४॥
श्रुत्वा तन्व्या निशीथे नवघनरसितं विश्वथाङ्गं पतित्वा
शय्यायां भूमिपृष्ठे करतल धृतया दुःखितालीजनेन ।
सोत्कण्ठं मुक्तकण्ठं कठिनकुचतटाघात शीर्णाश्रुविन्दु
स्मृत्वा२ प्रियस्य स्खलितमृदुवचो रुद्यते पान्यबध्वा ॥ ५५ ॥