पृष्ठम्:काव्यसंग्रहः.pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३४ श्रमरुशतकं । [ हारिणी ॥ ५१ ॥ नभसि जलदलक्ष्मीं संभृतां वीठ्य दिव्या प्रसरसि यदि कान्तेत्यर्श्वमुक्त्वा कथश्चित् । मम पटमवलम्ब्य प्रोल्लिखन्ती धरित्रों तदनुकृतवती सा यच वाचो निवृत्ताः ॥ ५० ॥ इयमसौ तरलायतलोचना गुरुसमुन्नतपीनपयोधरा । पृथुनितम्बभरालसगामिनी प्रियतमा मम जीवित सालक्तकेन नवपल्लवको मलेन पादेन नूपुरवता मदनालसेन । यस्ताङ्यते दयितया प्रणयापराधात् सोऽङ्गीकृतो भगवता मकरध्वजेन ॥५२॥ बालेनाथ विमुञ्च मानिनि रुषं रोषान्मया किं कृतं खेदोस्मासु न मेऽपराध्यति भवान् सर्वेऽपराधा मयि । तत् किं रोदिषि गह्नदेन वचसा कस्याग्रतो रुद्यते नन्बेतन् मम का तवास्मि दयिता नास्मीत्यतो रुद्यते ॥ ५३॥ नीत्वोच्चैर्विक्षिपन्तः कृततुहिनकणासारसङ्गान् परागान् कौन्दानानन्दितालीनतितरसुरभीन् भूरिशो दिंमुखेषु । एते ते कुङ्कुमाक्तस्तनकलसभरास्फालनादुच्छलन्तः पीत्वा पीत्वाशीत्कारिवत्रं शिशुहरिणदृशांहैमनावांतिवाताः ५४॥ श्रुत्वा तन्व्या निशीथे नवघनरसितं विश्वथाङ्गं पतित्वा शय्यायां भूमिपृष्ठे करतल धृतया दुःखितालीजनेन । सोत्कण्ठं मुक्तकण्ठं कठिनकुचतटाघात शीर्णाश्रुविन्दु स्मृत्वा२ प्रियस्य स्खलितमृदुवचो रुद्यते पान्यबध्वा ॥ ५५ ॥ Google Digitzed by